________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । १८५ दीर्घायुर्मुनिसूनवे स्म ददते दिव्यं तथाऽभीष्टदम् .. .
प्रख्याताय भगीरथाय भगवत्पादामृतं प्राददात् ॥ पापेभ्योऽपि च बाण-पतिवदनप्रैष्ठेभ्य इष्टं फलम्
प्रादात्तस्य शिवस्य भाति जगदाह्रादाय वादान्यकम् ॥ ३३२ ॥ कृ०–तदेतद्व्याहतं भाषितम् । यन्महादेवस्य वादान्यकं जगैदाझादायेति ॥ १३८ ॥
यतःदत्त्वा वरं दानवराक्षसेभ्यो विश्वस्य च खस्य च यो विषादम् ॥ संपादयामास शशाङ्कमौलितृत्वमेतस्य तवैव हृद्यम् ॥ ३३३ ।। वि०-कुटिलधिषण, गुणमपि दोष इति घोषयति भवान् ॥१३९॥
तदेवोपपादयति-दीर्घायुरिति । यः शंकरः मुनेः मृकण्डोः सूनवे पुत्राय मार्कण्डेयाय दीर्घायुः चिरंजीवित्वं ददते स्म ददौ । 'दद दाने' इत्यस्माद्धातोर्लटि रूपम् । तथा प्रख्याताय खचारित्र्यप्रसिद्धाय भगीरथाय एतन्नाम्ने राज्ञे अभीष्टदं इच्छितफलप्रदं दिव्यं भगवतो विष्णोः पादसंबन्धि अमृतं जलं गङ्गारूपं प्रादात् दत्तवान् । तथा बाणः बलिपुत्रः पतिवदनः रावणश्च तो प्रष्ठौ मुख्यौ येषु तेभ्यः पापेभ्यः पापरूपेभ्यो दैत्येभ्योऽपि, इष्टमभीष्टं फलं प्राददात् समर्पितवान् । तस्य शिवस्य वादान्यकं दातृत्वं जगतः आह्लादाय आनन्दाय भाति विराजते ॥ ३३२ ॥
पुनरपि दोषमाह-तदेतदिति । तदेतत् त्वयोक्तं भाषितं व्याहतं व्याघातरूपदोषयुक्तं भवति । किं तत् । यत् महादेवस्य वादान्यकं जगतः आहादाय इत्युक्तं तत् ॥ १३८ ॥
कथं व्याहतं भवतीत्येतदेवोपपादयति-दत्त्वेति । यः शशाङ्कमौलिः शिवः दानवा दैत्याश्च राक्षसाश्च तेभ्यः वरं इच्छितफलप्राप्तिरूपं दत्त्वा, विश्वस्य खस्य च विषादं दुःखं संपादयामास । रावणादिसदृशेभ्यो वरदानात् जगतः, भस्मासुरादिसदृशेभ्यश्च खस्यापि दुःखोत्पादनात् । तस्मादेतस्य शिवस्य दातृत्वं तवैव हृद्यं मनोहरं, न तु सर्वस्येत्यर्थः ॥ ३३३ ॥
कुटिलेति । कुटिला वक्रा धिषणा बुद्धिर्यस्य तत्संबुद्धौ हे कुटिलधिषण, भवान् गुणमपि दोष इति घोषयति उच्चारयति ॥ १३९ ॥
१ 'पापिभ्यो'. २. प्रेष्ठेभ्यः'. ३ 'आहत'. ४ 'आह्वादयति'. ५ 'मौले.
For Private And Personal Use Only