________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । १८३
अन्यच्चसर्वतोमुखसमृद्धिजुषोद्यत्पौण्डरीकघनवासनयाऽपि ॥ यत्तयोप्यवधि जहुमखस्तत्सत्रघातिचिरसंगतिदोषात् ॥ ३२८ ।। पुनर्विमृश्यईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः ॥ तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः॥३२९॥
तु पुंस्थाकाश-विहायसी" इत्यमरः । उदिता उत्पन्नापि, प्रकृष्टं उत्तमं गाङ्गेयं वर्णप्रचुरं वसु धनं, पक्षे वसुषु अष्टवसुषु प्रकृष्टं श्रेष्ठं गाङ्गेयं भीष्मं च "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः । “गाङ्गेयं भर्म कर्बुरम्" इति च सुवर्णनामसु । उत्पाद्य प्रसूय, रत्नानां मणीनां आकरेण खनिना समुद्रेण च सह, निसं सङ्गं प्राप्य लब्ध्वापि, कपर्दिकाशां वराटिकाशां, कपर्दिनः शंकरस्य के मानि च "क वारिणि च मूर्धनि" इत्यमरः । आशामभिलाषं न जहाति न त्यजति । अहो तस्या भक्तिरिति तत्त्वम् ॥ ३२७ ॥
सर्वत इति । सर्वतोमुखानां यज्ञविशेषाणां उदकानां च "पुष्करं सर्वतोमुखम्" इत्युदकनामखमरः । समृद्धिजुषा आधिक्ययुक्तयापि तथा उद्यतां प्रफुल्लानां उत्पन्नानां च, पुण्डरीकाणि कमलान्येव पौण्डरीकाणि तेषां पौण्डरीकाणां कमलसमूहानां वा । खार्थे समूहे वाण् । यज्ञविशेषाणां च धनवासनया अतिसुगन्धयुक्तया बहुसंस्कारवत्यापि च तया गङ्गयापि, जहोर्मुनेः मखः यनः अवधि विनाशितः। हन्तेर्धातोः कर्मणि लुङि वधादेशः चिण् च । इति यत् यज्ञविघातरूपं कर्म, स.
घातिनः दक्षयज्ञविनाशकस्य शिवस्य चिरसंगतेः बहुकालसहवासस्यैव दोषात् । अन्यथा यज्ञवासनायुक्तायां तस्यां तदसंभवात् ॥ ३२८ ॥ __ अपि च ईश इति । यद्यपि ईशः शिवः करस्थीकृतः त्रिपुरविनाशसमये चापरूपेण हस्तस्थः कृतः, हस्ते धृत इत्यर्थः । काञ्चनाद्रिः मेरुपर्वतो येन सः, करखीकृत इत्यपि पाठान्तरम् । तथा कुबेरस्य मित्रं सुहृत्, रजताचले रौप्यमये कैलासपर्वते तिष्ठतीति तथाभूतः अस्ति । तथापि ईदृशसंपत्तिमत्त्वेऽपि अस्य शिवस्य भिक्षाटनं जातं प्राप्तम् । तस्मात् कुटिले वामे वक्रे च विधौ दैवे। भोगसूचकरेषायामिति यावत् । चन्द्रे च, “विधिविधाने दैवेऽपि", "विधुः सुधांशुः शुभ्रांशुः" इत्युभयत्राप्यमरः । शिरःस्थे सति, कुतः श्रीः संपत् ? अपि तु दुर्लभवेत्यर्थः । वस्तुतस्तु 'नहि खात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ३२९ ॥
१ 'वनवासनया'. २ 'व्यवधि'.
३ 'करस्वीकृत'.
For Private And Personal Use Only