________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
[कावेरी
विश्वगुणादर्शचम्पू:अथ कावेरीवर्णनम् ३३.
इत्यन्यत्राभिक्रामन् मन्दानिलस्पर्शसुखमभिनीय सानन्दम्कहारोत्पलतल्लजोल्ललनवत्कल्लोलनिर्लोलन
क्रीडापाटवगाढरूढहिमतासौरभ्यविभाजितः ॥ कावेरीसलिलावगाहरसिकः कस्यैष नेड्यो मरुत्
क्लान्तानां पुनरध्वनीनवपुषां यन्निधुनीते श्रमम् ॥ ३८९ ॥ कावेरीझरी निरीक्ष्य सशिरःकम्पम्
हन्त रङ्गपुरसङ्गतमत्राहं तरङ्गचलपङ्कजसङ्घम् ।।
सह्यजायतझरं बहु मन्ये स ह्यजायत तमःशमनार्थम् ॥ ३९०॥ अथ कावेरी वर्णयितुमुपक्रमते-इतीत्यादि । अभिक्रामन् अभिगच्छन् “वा. भ्राश-भ्लाश-" इत्यादिना श्यनभावपक्षे शप् । “क्रमः परस्मैपदेषु” इति दीर्घः । अभिनीय प्रकटीकृत्य__ कहारेति । कहाराणि सुगन्धीनि यानि उत्पलानि कमलानि तानि कहारोत्पलानि प्रशस्तानि च कहारोत्पलानि कहारोत्पलतल्लज्जाः “प्रशंसावचनैश्च" इति समासः । “मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि" इत्यमरः । तेषां उल्ललनं उन्नयनं विद्यते यस्मिन् तथाभूतं यत् कल्लोलेषु महातरङ्गेषु निोलनं ऊर्ध्वाधोभ्रमणं तद्रूपा या क्रीडा तस्यां यत्पाटवं कुशलत्वं तेन गाढं अतिमात्रं रूढाभ्यां हिमता शीतलता च सौरभ्यं सौगन्ध्यं च ताभ्यां विभ्राजितः विराजितः, एतादृशः कावेर्याः नद्याः सलिले जले योऽवगाहः स्नानं तस्मिन् रसिकः अनुरक्तः एषः मरुत् वायुः, " मरुतौ पवनामरौ" इत्यमरः । कस्य पुरुषस्य ईज्यः स्तुत्यः न भवति ? यत् यस्मात् कारणात् क्लान्तानां अतिमार्गक्रमणश्रान्तानां अध्वनीनानां पथिकानां, अध्वन्शब्दात् “ अध्वनो यत्खौ” इति अलंगच्छतीत्यस्मिन्नर्थे खः "आत्माध्वानौ खे" इति टिलोपो न । “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।" इत्यमरः । वपूंषि शरीराणि तेषां श्रमं क्लमं निर्धनीते निवारयति । अतः स मरुत् सर्वस्यापि स्तुत्य इति भावः ॥ ३८९ ॥
पुनरपि तामेव कावेरीझरी वर्णयति-हन्तेति । हन्तेति हर्षे । अत्र पुरोवर्तिभागे रजपुरेण श्रीरङ्गनाथक्षेत्रेण संगतं मिलितं तरङ्गैर्लहरीभिः चलाश्चञ्चलाः पङ्कजानां कमलानां संघाः समुदाया यस्मिंस्तं एतादृशं, सह्यजायाः सह्याद्रेत्पन्नायाः कावेर्याः आयतं दीर्घ झरं प्रवाहं, अहं बहु अतिशयेन मन्ये मानयामि । हि यस्मात् सः १ 'ललनकृत्'. २ ‘सरित'. ३ 'निरूप्य'.
For Private And Personal Use Only