________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३३] पदार्थचन्द्रिकाटीकासहिता । २१३
एषा खलु दोषाकुलसकलमनुजकुलसकलकलुषशोषणबद्धकैकणा। निजतटनिबिडतमबँकुलधवलकुलतिलकामलकाविरलसरलकुन्दचन्दनमन्दारसहकारकेरलकेसैरसरलबदरकदम्बकदम्बकगम्भीरजम्बीरजम्बूसंपूर्णपर्णकुसुमपलाशसमृद्धकपित्थलोध्रनीरन्ध्रशिलीन्ध्रपाटलपटलजटिलक्रमुकप्रमुखविशङ्कटविटपिमञ्जरीपुञ्जसञ्जरीजृम्भदुरुतरश्रमशमकरमकरन्दरस
कावेरीप्रवाहः तमसः अज्ञानस्य पापस्य वा शमनार्थ विनाशार्थ अजायत प्रकटीबभूव ॥ ३९० ॥
एषेति । एषा कावेरी नदी खलु दोषैः पापैराकुलानि व्याप्तानि यानि सकलमनुजकुलानि निखिलमनुष्यवृन्दानि तेषां सकलकलुषाणां सकलपातकानां शोषणे नाशने बद्धं कङ्कणं यया सा, तदर्थ कृतनिश्चयेति यावत् । निजतटे स्वकीयतीरे निबिडतमाः अतिसान्द्राः ये बकुला बकुलवृक्षाश्च धवलकुलानि अर्जुनवृक्षसमूहाश्च तिलकाः क्षुरकाश्च "तिलकः क्षुरकः श्रीमान्" इत्यमरः । आमलकाश्च अविरला निबिडाः सरलाः पीतसंज्ञकवृक्षाश्च "पीतद्रुः सरलः पूतिकाष्ठं" इत्यमरः । कुन्दाश्च चन्दनाश्च मन्दाराः पारिजातकाच “मन्दारः पारिजातकः" इत्यमरः । सहकारा आम्रवृक्षाच केरलाश्च वृक्षविशेषाः केसराश्च सरलाच, कचित् सरस इति पाठः । तत्पक्षे बदरविशेषणम् । बदराश्च कदम्बा नीपाश्च "तूलं च नीप-प्रियक-कदम्बास्तु हलिप्रिये ।" इत्यमरः । तेषां वृक्षविशेषाणां कदम्बकं समूहः तथा गम्भीरा ये जम्बीराश्च जम्ब्वः जम्बूवृक्षाश्च, जम्बूशब्दः स्त्रीलिङ्गः । “बार्हतं च फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम् ।” इत्यमरात् । संपूर्णानि समग्राणि निबिडानीति यावत् । पर्णानि कुसुमानि पुष्पाणि च येषु तादृशाः पलाशाः किंशुकाः "पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ।" इत्यमरः । समृद्धाः ये कपित्थाः लोध्राश्च तैः नीरन्ध्राः सान्द्राः शिलीन्ध्राः पाटलाश्च तेषां पटलानि समूहाः “ समूहे पटलं न ना" इत्यमरः । तैश्च जटिला निबिडाः अन्योन्यसंमिश्रा इत्यर्थः । ये क्रमुकाः पूगवृक्षाश्च " घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।" इत्यमरः । ते सर्व प्रमुखा मुख्याः येषु ते ये विशङ्कटाः विशालाः “ विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ।" इत्यमरः । विटपिनो वृक्षाः तेषां मञ्जरीपुळेभ्यः मअरीसमूहेभ्यः संजरीज़म्भन् अत्यन्तं प्रवहन् , जृम्भतेर्यलुकि द्वित्वे च "रीगृदुपधस्य च” इत्यभ्यासस्य रीगागमः। उरुतरः अतिबहुलः श्रमशमकरः ग्लानिनिवारकः मकरन्दरसः पुष्परससारं तस्य सुग्रसने सुष्ठु पाने तात्पर्य अत्यन्तासक्तत्वं तेन पर्यटन्तः परितो भ्रमन्तः अदभ्राणां बहूनां. विभ्रमाणामालम्बा आश्रयभूताः रोलम्बा भ्रमरास्तेषां निकुरम्बै समूहैः
१ किल'. २ 'दोषाकुलमनुज'. ३ 'बद्धकङ्कणकङ्कणा'. ४ 'बकुलबकुल', 'बकुलधरबकुल', 'बकुलधवलबकुलकुल'. ५ 'सहकारकेसरं'. ६ 'सरसकदम्बकदम्बकबदर'.
For Private And Personal Use Only