________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३२] पदार्थचन्द्रिकाटीकासहिता । २०९
सदा सदावलिस्तुता मुदामुदारशेवधि
हिता हि ता_केतना नती न तापतां नयेत् ॥ ३८३ ॥ श्रीमत्कवीन्द्रश्चात्र कश्चिदित्थमनुसन्धत्ते ॥ १६४ ॥ सदावदातनिम्नगातटीकुटीरवासिनी
कैटिस्फुटीभवत्करा किटीश्वरी पटीयसी । रसारसादिहोदिता रसालसालसंवृते
वनेऽवनेषु दीक्षिता मदीक्षिताधिदेवता ॥ ३८४ ॥
धराधरा, रसातलगतायाः पृथ्व्या दंष्ट्राग्रेणोद्धारयित्रीत्यर्थः । अत एव सदा सततं सतां साधूनां आवल्या पतया स्तुता प्रशंसिता, मुदां निरतिशयात्मानन्दानां उदारो महान् शेवधिः समुद्रः तद्रूपेत्यर्थः । हिता निखिलजगद्धितकी, तायकेतना गरुडध्वजा एतादृशी आदिदेवता वराहरूपिणी सूकररूपधारिणी, नता नमस्कृता सती, तापतां संसारसंबन्धितापत्रयरूपं न नयेत् न प्रापयेत् । हिरवधारणर्थकः ॥ ३८३॥
अत्रार्थे अन्यकवेरपि संमतिं द्योतयन्नाह-श्रीमदित्यादि। अनयोक्त्याऽग्रिमपयं न प्रस्तुतकवेरिति प्रतिभाति ॥ १६४ ॥
सदेति । रसायां भूमौ " भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा।" इत्यमरः। रसात् प्रीतेर्हेतोः “ रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे। बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च ।" इति हैमः । इह रसाला आम्रवृक्षाश्च सालाः सर्जवृक्षाश्च तैः “ आम्रचूतो रसालोऽसौ" " साले तु सर्ज-कार्याश्वकर्णकाः सस्यसंवरः।" इत्युभयत्राप्यमरः । संवृते वेष्टिते वनेऽरण्य उदिता उत्पन्ना सदा अवदाता गौरवर्णा शुद्धा वा “ अवदातः सितो गौरः” इत्यमरः। या निम्नगा नदी पिनाकिनी तस्यास्तटी तीरं "कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु" इत्यमरात् तटशब्दस्य त्रिलिङ्गत्वम् । तस्यां यत् कुटीरं अल्पगृहं गुहारूपमित्यर्थः । “कुटी-शमीशुण्डाभ्यो रः" इति सूत्रेणाल्पार्थे रप्रत्ययः । “वासः कुटी द्वयोः शाला सभासंजवनं त्विदम् ।" इत्यमरः । तस्मिन् वासिनी निवासिनी कट्यां स्फुटीभवन् प्रत्यक्षतया दृश्यमानः करो हस्तो यस्याः सा किटीनां वराहाणां ईश्वरी स्वामिनी आदिवराहरूपिणीत्यर्थः । “वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।" इत्यमरः। पटीयसी अघटितघटनाचतुरा, पटुशब्दात् "द्विवचनविभज्य-" इत्यादिना ईयसुनि टिलोपः । अत एव अवनेषु पालनेषु दीक्षिता गृहीतव्रता एतादृशी आदिदेवता मदीक्षिता मया अवलोकिता ॥ ३८४ ॥
१'नतागति'. २ 'कटीतटीस्फुटीभवत्करा किटी पटीयसी'. ३ 'तादिदेवता'.
For Private And Personal Use Only