________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१० विश्वगुणादर्शचम्पू:- [यज्ञवराह
कृ०-सोऽयं हेयप्रत्यनीकोऽपि शाङ्गीं कष्टं पृथ्वीकायाभूद्वराहः ।। इत्थं सिद्धे ब्रूहि भूलाभलोभात्कं के वेषं मानुषो नेहे धत्ते॥३८५॥ वि०-अनभिज्ञो भवान् भगवदवताररहस्यस्य ॥ १६५ ॥ शृणुपाठीनीयं कामठं कैटभारिः कैटं रूपं यातु काण्ठीरवं वा ॥ अन्यद्वा यत्सर्वमप्राकृतं तन्नासौ तेष्वप्युज्झति खखभावम् ॥३८६॥ किं च
कोलं भुवि कोऽलं जगदालम्बमवैतुम्
__ खामी शुभकामी किल भूमीमसुराँतोम् ॥ सोऽयमिति। सः अयं त्वया वर्णितः शाी श्रीविष्णुः, हेयानां राग-द्वेषादिप्राकृतदोषाणां प्रत्यनीको विरुद्धः तद्रहितोऽपीत्यर्थः । पृथ्व्याः काया वाञ्छया वराहः सूकरः अभूत्, इति कष्टं अन्याय्यम् । यतः इत्थं भगवतोपि पृथ्वीलाभहेतुना पशुरूपस्वीकारे सिद्धे सति, इह लोके भूलाभलोभात् पृथ्वीप्राप्तिकाङ्क्षायाः हेतोः, मानुषो मनुष्यः कं कं नीचतरं वेषं न धत्ते स्वीकरोति । को वा आयोपि सन् सेवकत्व-याचकत्वासत्याचरणानृतभाषणादि न करिष्यतीत्यर्थः । अपि तु भगवदुदाहरणात्सर्वमपि करिष्यत्येवेत्यर्थः । एतत् सत्यमसत्यं वेति ब्रूहि ॥ ३८५ ॥
अनभिज्ञ इति । भवान् भगवत ईश्वरस्यावताराणां रहसि भवं रहस्यं तस्य, गौप्यस्येत्यर्थः । “रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।" इत्यमरः । अनभिज्ञः अभिजानातीत्यभिज्ञः तथा न भवतीत्यनभिज्ञः, तन्न जानातीत्यर्थः ॥ १६५ ॥
अनभिज्ञत्वमेवाह-पाठीनीयमित्यादिना। कैटभारिः कैटभनामकासुरशत्रुः श्रीविष्णुः, पाठीनस्य सहस्रदंष्ट्राभिधमत्स्यविशेषस्येदं पाठीनीयं 'तस्येदम्' इत्यर्थे छ: तस्य च इयादेशः । “सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ।" इत्यमरः । कमठस्य कूर्मस्येदं कामठं पूर्वोक्तेऽर्थे एवाण् । “ कूर्मे कमठ-कच्छपौ” इत्यमरः । वाथवा किटेर्वराहस्येदं कैटं कण्ठीरवस्य सिंहस्येदं काण्ठीरवं वा रूपं यातु प्राप्नोतु, अन्यत् अश्वादिरूपं वा यातु तथापि यद्यद्भगवान् रूपं धत्ते, तत्सर्वं अप्राकृतं प्रकृ. तिसंबन्धरहितं, यद्यस्मात् असौ भगवान् तेषु रूपेषु खीकृतेष्वपि खस्य स्वभावं सामर्थ्य न उज्झति न त्यजति । यथा-मत्स्यरूपेण वेदोद्धारणं, कूर्मरूपेण मन्दराचलधारणं, वराहेण धरण्युद्धारणमित्यायूह्यम् । नैतत् प्राकृतेन रूपेण कर्तुं शक्यमिति भावः ॥ ३८६ ॥
पुनरपि तमेव वराहं वर्णयति-कोलमिति । जगतः आलम्बं आश्रयं कोलं वराह " कोल: पोत्री किरिः किटिः ।" इत्यमरः । भुवि अवैतुं ज्ञातुं, अवपूर्वकातू
१ योऽयम्'. २ 'नैव धत्ते'. ३ 'असुरात्ताम्'.
For Private And Personal Use Only