________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता ।
१४५ साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषाम् __ संकेतेनैव सिद्धं तदिदमविदुषां श्लाध्यमाचार्यपुंस्त्वम् ॥ २५० ।।
अहो महानयमभिजन-विद्या-वृत्तसंपन्नानामन्येषामप्यनिवृत्तो व्यामोहः ॥ १०१ ॥ आचारस्य दवीयसां धनतृषामज्ञातवेदाध्वनाम्
कामातङ्ककलङ्कपङ्किलहृदां केषांचिदेषाममी ।। शुद्धाचारजुषो जितेन्द्रियतया श्रेष्ठाः स्वयं सूरयः शिष्यत्वं यदुशन्ति तत्किल कलेः साम्राज्यमंत्रोर्जितम् ॥२५१॥
किरातान् म्लेच्छजातिविशेषान् , जनपददमनान् दुस्तरकरभारग्रहणादिना देशविध्वंसकान्, अत एव राजपाशान् कुत्सितराजन्यान् । कुत्सितेऽर्थे पाशप् । महीशान् राज्ञश्च शिष्यान् कृत्वा, श्रुतिपथविधुराः वेदविहितमार्गत्यागिनः, अत एवातिदृप्ता गर्विताश्च सन्तः, ब्रह्मनिष्टैः आत्मनिष्ठैः श्रोत्रियैः विधिवदग्निहोत्रानुटानयुक्तैश्च जनैः साकं सह, सकृदेकवारमपि नो भुञ्जते भोजनं नैव कुर्वन्ति । एतावदेव न, किंतु तेषां श्रोत्रियादीनाम नतिं नमस्कारमपि न कुर्वते । अपि च संकेतेनैव सिद्धं निष्पन्न, अविदुषामज्ञानां मूर्खाणामिति यावत् । आचार्यपुंस्त्वं आचार्यपुरुषत्वं तदिदं श्लाघ्यं किमिति काकुः । अपि तु अतीव गर्हणीयमेवेति भावः ॥ २५०॥
एतत्तु अविदुषामाचरणं, विदुषामपि निन्द्यमिति वक्तुमवतारयति-अहोइति । अभिजनः सत्कुलं च विद्या वेद-शास्त्रादिज्ञानं च वृत्तं वर्तनं च तैः संपनानां युक्तानामन्येषां पूर्वेभ्य इतरेषां, एषां लोकानामपि अयं वक्ष्यमाणः महान् व्यामोहो विवेकराहित्यं, अनिवृत्तः नैव गतः ॥ १०१॥
व्यामोहानिवृत्तत्वमेव प्रतिपादयति-आचारस्येति । अमी शुद्धं वेद-शास्त्रायुक्तमाचारं जुषन्ति सेवन्ते इति तथोक्ताः, जितेन्द्रियतया बाह्यान्तरिन्द्रियमदनेन श्रेष्ठाश्च, खयं सूरयः पण्डिताः अपि “पण्डितः कविः । धीमान् सूरिः" इत्यमरः । आचारस्य यथोक्ताचरणस्य दवीयसां दूरतराणां, दूरशब्दात् अतिशयार्थे ईयसुनि "स्थूल-दूर-युव-हख-" इत्यादिना रकारलोपे पूर्वस्य गुणः । अत एव अज्ञात- . वेदाध्वनां अज्ञातवेदमार्गाणां, धनतृषां द्रव्याशापराणां, कामातङ्कः कामविकार एव कलङ्कः मलिनत्वं तेन पङ्किलं दूषितं हृदन्तःकरणं येषां तेषां, केषांचित् एषां आचार्याणां शिष्यत्वं यत् उशन्ति इच्छन्ति, तत् अत्र लोके कले: साम्राज्यं अप्रतिहतं स्वातन्त्र्यं ऊर्जितं प्रवृद्धम् । किल निश्चयेन ॥ २५१॥
१ मिनिवयों.
२ 'मत्यूजितं.'
For Private And Personal Use Only