________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६ विश्वगुणादर्शचम्पू:
[ श्रीरामानुजअपि चखयं तरितुमक्षमः किमपरानसौ तारये
दिति खयमचिन्तयन्नगणयन् धनानां व्ययम् ॥ जडं गुरुरिति भ्रमन् श्रयति पुस्तकाडम्बरै__ बहूपकरणान्वितैर्बहुलदेवताविग्रहैः ॥ २५२ ॥ अपि च---- अमलपतिषु लोके जागरूकेष्वनेके
प्वपि निजगुरुवशोत्पत्तिमेवावलोक्य । विगतशुभचरित्रं वेद-शास्त्रानभिज्ञम्
कमपि गुरुरितीमे कष्टमाराधयन्ति ॥ २५३ ॥ अपरमपि कलेराकर्णय चमत्कारम् ।। १०२ ॥ सम्यक् शिष्यजनं परीक्ष्य बहुभिः संवत्सरैरुत्सुकं
शुश्रूषाभिरुपादिशन् प्रमुदिताः पूर्वे भुवीति श्रुतम् ॥ आराध्येष्टसमर्पणैरविनतानाचार्य एवादरा
दैब्दै रितमैः प्रसह्य लभते शिष्यान् श्रमेणाऽधुना ॥ २५४ ॥ स्वयमिति । वयं तरितुं पारं गन्तुं अक्षमः असमर्थः असौ आचार्यः, अपरानन्यान् किं कथं तारयेत् ? भवसागरमिति शेषः । इति स्वयं विद्वानपि अचिन्तयन् अविचारयन् , धनानां व्ययं च अगणयन् सन् , पुस्तकानामाडम्बरैः बहुपुस्तकभारैरित्यर्थः, तथा बहुभिरुपकरणैरलंकारादिभिः अन्वितैयुक्तैः, बहुलदेवताविग्रहः पुष्कलदेवमूर्तिभिश्च भ्रमन् , मोहं प्राप्नुवन् । पुस्तकभारं देवतार्चनाडम्बरं च दृष्वाऽयं मां भवसागरमुत्तारयेदिति भ्रान्तः सनित्यर्थः । जडं विद्यादिरहितं, गुरुरिति मत्वा श्रयति आश्रयति ॥ २५२ ॥ ___ अमलेति । किंच लोके अमला वेदोक्तकर्मानुष्ठानतया परिशुद्धा मतिर्बुद्धिर्येषां
ते तथाभूतेषु अनेकेषु बहुषु लोकेषु जागरूकेषु वर्तमानेषु सत्खपि, निजगुरोः पितृ-पितामहादिपरंपरया आचार्यस्य वंशे उत्पत्ति केवलं जन्मैव, न तु विद्यादिसंपनत्वं, अवलोक्य, वेद-शास्त्रयोः अनभिज्ञं अनिपुणं, वेदादिज्ञानशून्यमित्यर्थः । तत एव च विगतं नष्टं शुभचरित्रं इह-परलोकयोः श्रेयःसंपादकं चेष्टितं यस्य तथोक्तं कमपि पुरुषं गुरुः आचार्य इति मत्वा, इमे जनाः आराधयन्ति सेवन्ते। कष्टं अन्याय्यमेतत् ॥ २५३ ॥
अपरमिति । अपरमन्यं कलेश्चमत्कारं आश्चर्यावहं प्रभावं, आकर्णय शृणु १०२ सम्यगिति । पूर्वे युगान्तरस्थाः वसिष्ठ-वामदेव-पिप्पलादादयः गुरुवः, भुवि १ 'त्यश्रुमः.' २ 'आराध्यैव समर्पणै.' ३ 'अर्थे.' ४ 'प्रशस्य.' ५ 'क्रमेणा.'
For Private And Personal Use Only