________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
विश्वगुणादर्शचम्पू:
[ चन्नपट्टण
अत्र वसन्तः सन्तश्चिरंतनोक्त्यन्तचिन्तनाश्रान्ताः ॥ आतन्वन्तं सुचरितमातन्वन्तो विभान्ति मानधनाः ॥ २६१ ॥ कृशानुः - अस्तु तथापि परिकेलित गुणप्रहाणहूप्पप्रायहेयजननिबिडनगर विशेषसन्निकर्ष एवात्र महान् दोषः । दुर्लभाः खलु हूणेभ्यः कुत्सिततमा लोके ॥ १०४ ॥
हूणाः करुणाहीनास्तृणवद्ब्राह्मणगणं न गणयन्ति ॥ तेषां दोषाः पारे वाचां ये नाचरन्ति शौचमपि ॥ २६२ ॥ पुनः सनिर्वेदं विर्धिमुद्दिश्यशौचत्यागिषु हूणकादिषु धनं शिष्टेषु च क्लिष्टताम्
दुर्मेधस्सु धराधिपत्यमतुलं दक्षेषु भिक्षाटनम् || लावण्यं ललनासु दुष्कुलभवाखग्र्यासु नीरूपताम्
कष्टं सृष्टवता त्वया हतविधे किं नाम लब्धं फलम् ॥ २६३ ॥
अत्रेति । किंच अत्र कैरविणीतीरे वसन्तो वासं कुर्वन्तः सन्तः सज्जनाः, चिरंतनस्य ब्रह्मण उक्तयो वेदास्तेषामन्ता उपनिषदस्तेषां चिन्तनेन विचारेण अश्रान्ताः विश्रामरहिताः सततमुपनिषद्विचारासक्ता इत्यर्थः । अत एव आतन्वन्तं शरीरावसानपर्यन्तं सुचरितं सत्कर्म आतन्वन्तो विस्तारयन्तः कुर्वन्त इति यावत् । मानधनाः सन्तः विभान्ति प्रकाशन्ते ॥ २६१ ॥
अथ कृशानुहीनजनसांनिध्यादिरूपं दोषमुद्घाटयन्नाह - अस्त्विति । पूर्वोक्तप्रकारं सर्वे अस्तु नाम, तथापि परिकलितं स्वीकृतं गुणानां दया- दाक्षिण्यादीनां प्रहाणं त्यागो यैस्तथाभूता हूणाः श्वेतवर्णाः म्लेच्छादिहीनकुलोद्भवा नराः प्रायाः बहवो येषु तादृशैः अत एव हेयैस्त्याज्यैः जनैः निबिडस्य परिपूर्णस्य नगरविशेषस्य चन्नपट्टणस्य सन्निकर्षः सान्निध्यमेव अत्र क्षेत्रे, महान् दोषः । यतः हूणेभ्यः कुत्सि ततमाः अतिनिन्दनीयाः लोके जनाः दुर्लभाः खलु ॥ १०४ ॥
कुत्सिततमत्वमेव स्पष्टयति-हूणा इति । करुणया दयया हीना: हूणाः ब्राह्मणगणं ब्राह्मणसमुदायं तृणवत् तृणमिव न गणयन्ति । तुच्छीकुर्वन्तीत्यर्थः । किंच ये हूणाः शौचं पुरीषोत्सर्गानन्तरं गुदप्रक्षालनादिरूपमपि न आचरन्ति, किमुत मृज्जलादिना स्नानादिरूपं, अत एव तेषां दोषाः पापानि पारे वाचां, वाचा वक्तुमशक्या इत्यर्थः । सन्तीति शेषः ॥ २६२ ॥
पुनरिति । सनिर्वेदं सखेदं विधिं ब्रह्माणमुद्दिश्य -
शौचेति । हे हतविधे मन्द प्रजापते, शौचं त्यक्तुं शीलं येषां तेषु हूणकादिषु हूण - म्लेच्छादिषु धनं द्रव्यं, शिष्टेषु सदाचरणसंपन्नेषु जनेषु च क्लिष्टतां दारिद्र्यं
१ 'शान्तिधनाः ' २ ' परिकल्पित. ' २ ' विगणयन्ति' ४ 'दैव. '
For Private And Personal Use Only