________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २१] पदार्थचन्द्रिकाटीकासहिता ।
विश्वावसुः-पश्यं त्वमेतेष्वपि गुणग्राहित्वम् ॥ १०५॥ प्रसह्य न हरन्त्यमी परधनौघमन्यायतो
वदन्ति न मृषावचो विरचयन्ति वस्त्वद्भुतम् ॥ यथाविधि कृतागसां विदधति खयं दण्डनम्
गुणानवगुणाकरेष्वपि गृहाण हूणेष्वमून् ॥ २६४ ॥
अथ काञ्चीवर्णनम् २१.
-ocomइति विमानमितः प्रतीच्यां दिशि योजनपञ्चकमतिकामयन् पुरतो दृष्ट्वा सामोदम्
दुष्टा मेधा बुद्धिर्येषां तेषु "नञ्-दुस्-सुभ्यः” इत्यनुवर्तमाने "नित्यमसिच् प्रजा-मेधयोः" इत्य सिच् समासान्तः । धरायाः पृथ्व्याः अतुलं अनन्यसदृशं आधिपत्यं खामित्वं, दक्षेषु बुद्धिमत्सु च भिक्षाटनं भिक्षार्थ संचारम् , तथा दुष्कुलभवासु यवनस्लेच्छादिहीनकुलोत्पन्नासु ललनासु स्त्रीषु लावण्यं सौन्दर्य अग्र्यासु श्रेष्ठब्राह्मणादिकुलोत्पन्नासु स्त्रीषु च नीरूपतां कुरूपत्वं, एतादृशं परस्परविरुद्धं सृष्टवता उत्पादयता खया किं नाम फलं लब्धं प्राप्तम् ? कष्टं अन्याय्यम् ॥ २६३ ॥
अथ तेष्वपि विचित्रवस्तुरचनादिरूपान् गुणान् प्रदर्शयन्नाह विश्वावसुःपश्यति । त्वं एतेष्वपि पूर्वोक्तनिन्द्याचारयुक्तेष्वपि, गुणग्राहित्वं पश्य ॥ १०५ ॥
गुणग्राहित्वमेवोपपादयति-प्रसह्येति । अमी हूणाः परेषां लोकानां धनौघं द्रव्यसमूह, अन्यायतः प्रसह्य बलात्कारेण न हरन्ति । किंतु विचित्रवस्तुप्रदर्शनादिना मोहयित्वा, करग्रहणादिना च प्रतिवर्ष स्वल्पं स्वल्पमिति बहुना कालेन बढेव हरन्तीति ध्वनिः । एवमुत्तरत्रापि यथायथमूह्यम्। तथा मृषावचः अनृतभाषणं न वदन्ति, अद्भुतं आश्चर्यकरं वस्तु विरचयन्ति उत्पादयन्ति, तथा कृतागसां कृतापराधानां यथाविधि राजनियममनुसृत्य खयं दण्डनं शिक्षा विदधति कुर्वन्ति । तस्मात् अवगुणानां 'शौचत्यागिषु-'इत्यादिश्लोकप्रतिपादितानां दोषाणां आकरेषु उत्पत्तिस्थानेष्वपि सत्सु हूणेषु, अमूनधुना मया प्रतिपादितान् गुणान् गृहाण । नैते सर्वथा दोषार्हा इति भावः ॥ २६४ ॥
इदानीं काञ्चीनगरवर्णनमाक्षिपन्नाह कवि:-इतीति । इतः चन्नपट्टणदेशातू, प्रतीच्या पश्चिमायां दिशि, योजनपञ्चकं विंशतिक्रोशपर्यन्तं अतिक्रामयन् गमयन्, सामोदं सानन्दम् ।
१ 'अवेहि', 'एहि.
For Private And Personal Use Only