________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५२
विश्वगुणादर्शचम्पू:
इयं काची काञ्ची करिशिखरिणः कापि नगरी गरीयस्यां यस्यां विहरणजुषां पक्ष्मलदृशाम् ॥ मुखं ददर्श रजनिकरमादर्शमैमलम्
स्वरूपं के पङ्केरुहमपि न निन्दन्ति रसिकाः ॥ २६५ ॥
किं च
सुमनोजनतास्थानं स्थाने सद्रूपशोभनी सेयम् ॥ सुरताभ्युदयविधात्री शुभकाची साधु रञ्जयति चेतः ॥ २६६॥ नगरीमेनां दक्षिणेन करुणाझरीव भगवती वेगवती नाम प्रवहति पावनी शैवलिनी ॥ १०६ ॥
[ काञ्ची
इयमिति । इयं करिशिखरिणः हस्तिशैलस्य काञ्ची रशना, “स्त्रीकट्यां मेखलाकाञ्ची सप्तकी रशना तथा " इत्यमरः । तमभिवेष्टय स्थितेत्यर्थः । काञ्ची नाम कापि अनिर्वाच्या नगरी वर्तते । गरीयस्यां अतिमहत्यां, गुरुशब्दात् ईयसुनि “प्रिय-स्थिर-स्फिर—” इत्यादिना गरादेशः । यस्यां नगर्यो विहरणजुषां क्रीडां कुर्वतीनां पक्ष्मलदृशां स्त्रीणां मुखं दर्श दर्श पुनः पुनरवलोक्य, के रसिकाः पुरुषाः अमलस्वरूपं स्वच्छस्वरूपं, एतत् रजनिकरादर्श - पङ्केरुहेष्वपि संबन्धनीयम् । रजनिकरं चन्द्रं, आदर्श दर्पणं, पङ्केरुहं कमलमपि च न निन्दन्ति ? अपि तु सर्व एव एतान् सर्वानपि निन्दन्तीत्यर्थः ॥ २६५ ॥
सुमन इति । सुष्ठु मनो येषां ते सुमनसः पण्डितास्ते च ते जनाश्च तेषां समूहस्तत्ता तस्याः स्थानं, यथाविधिस्वकर्मानुष्ठानेन शुद्धमानसानां पण्डितानां वसतिस्थानमित्यर्थः । पक्षे सुष्टु मनोज: कामस्तेन नतानां, नम्राणां, अत्यन्तकामासक्तानामित्यर्थः । आस्थानम् । सद्भिरुत्तमैः स्वादु- सुगन्धिफल- पुष्पसंपन्नैरिति यावत् । द्रुभिः वृक्षैः आम्र-पनस - दाडिम- नारी केलादिभिः उपशोभनी पक्षे सता उत्तमेन रूपेण शोभनी च, सुराणां समूहः सुरता तस्याः, पक्षे सुरतस्य कामसौख्यस्य च अभ्युदयं वृद्धिं विधत्ते इति तथाभूता सा इयं शुभा काञ्ची नगरी रशना च, अस्मिस्थाने चेतः अन्तःकरणं साधु यथा स्यात्तथा रञ्जयति रमयति ॥ २६६ ॥
अन्यदप्याश्चर्यमाह - नगरीमिति । एनां काञ्चीं नगरीं दक्षिणेन अस्या दक्षिगत इत्यर्थः । " एनबन्यतरस्याम्- १ इति एनप्प्रत्ययः । " एनपा द्वितीया" इति तद्योगे द्वितीया च । करुणायाः झरीव भगवती वेगवती नाम पावनी पवित्रा शैवलिनी नदी प्रवहति ॥ १०६ ॥
१ 'मतुलम् . ' २ 'सुमनोजनवादरणस्थानं. ' ४ 'भगवतो. '
३ स्थाने सद्रूपसेवनी सेयम्. '
For Private And Personal Use Only