________________
Shri Mahavir Jain Aradhana Kendra
वर्णनम् २१ ]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिकाटीका सहिता ।
माधुर्याध्ययनोपैसन्नमधुनिष्यन्दानि मन्दानिलव्यालोलत्तटचारुभूरुह शिखानिष्पातिपुष्पाधिकैः ॥ डिण्डीरैः स्मितवन्ति पान्ति दुरिताद्वेगापगायाः स्फुरद्वेगोद्वेजितवाजिमेधमखकृद्वेधांसि पाथांसि नः ॥ २६७ ॥ इतश्च सखे चक्षुर्निक्षिप्यताम् ॥ १०७ ॥
य एष राजत्कटकः सदालिभिः समाश्रितः शोभनदानसंपदा || स नित्यशुद्धं वरदं - तमुद्वहन्यथार्थनामा गजभूभृदीक्ष्यते ॥ २६८ ॥ सभक्तिप्रकर्षमञ्जलिं बद्धा
द्विपाचलमुपाश्रितं त्रिदशपादपवर्गवी
त्रपाकरमुपास्महे दिगधिपावनं पावनम् ॥
१५३
तामेव वर्णयति - माधुर्येति । माधुर्यस्य मधुरतायाः अध्ययनार्थे शिक्षणार्थं उपसन्नाः संमिलिताः मधुनः तीरस्थवृक्षरसस्य निष्यन्दा बिन्दवो येषु तानि, पुनश्च मन्दानिलेन मन्दवायुना व्यालोलन्ति चञ्चलानि तटयोस्तीरयोः चारुभूरुहाणां सुन्दरवृक्षाणां शिखाभ्यः अग्रेभ्यः निष्पातीनि पतनशीलानि यानि पुष्पाणि तैः अधिकैः प्रवृद्धैरित्यर्थः । डिण्डीरैः फेनै: “डिण्डीरोऽब्धिकफः फेनः" इत्यमरः । स्मितवन्ति मन्दहास्ययुक्तानीव स्थितानि अपि च स्फुरता वेगेन जवेन उद्वेजितः यज्ञभङ्गभिया दुःखितः, वाजिमेधं अश्वमेधं नाम मखं यज्ञं करोतीति तत्कृत् वेधाः ब्रह्मा येषां तानि वेगापगायाः वेगवत्या नाम नद्याः पाथांसि उदकानि, नः अस्मान् दुरितात् पापात् पान्ति रक्षन्ति । पाठान्तरे, नः पान्तु रक्षन्तु इत्यर्थः । पुरा किल ब्रह्मदेवे काञ्चयामश्वमेधं कुर्वति सति तद्विनाशार्थं सरस्वत्येव वेगवतीरूपेण यज्ञवेदिमावृणोत् इति पौराणिकी कथात्रानुसंधेया ॥ २६७ ॥
इत इति । हे सखे, इतः अस्मिन्प्रदेशे चक्षुः दृष्टिः निक्षिप्यतां दीयताम् ॥ १०७॥
1
>
य इति । य एष पुरो दृश्यमानः पर्वतः राजन् शोभमानः कटक: नितम्बभागः यस्य सः, राजन्तौ शोभमानौ कटौ गण्डस्थले यस्य स राजत्कटक इति च । "कटकोsस्त्री नितम्बोsद्रेः " " गण्डः कटो मदो दानं" इत्युभयत्राप्यमरः । अत एव सतां साधूनामालिभिः पतिभिः सदा अलिभिर्भ्रमरैश्च शोभनानां शुभफलप्रदानां दानानां शोभनस्य दानस्य मदोदकस्य च संपदा समृद्ध्या च समाश्रितः नित्यं सततं शुद्धं निर्मलं श्वेतवर्णे च तं भक्तेष्टफलदातृत्वेन प्रसिद्धं वरदं एतन्नामकं भगवन्तं वरं सुन्दरं दन्तं रदनं च, उद्वहन् धारयन् अत एव यथार्थनामा अन्वर्थनामा सः गजभूभृत् हस्तिशैलः, गजानां भूभृत् राजा च ईक्ष्यते अवलोक्यते ॥ २६८ ॥ अतीव भक्तिप्रवणान्तःकरण आह - द्विपाचलमिति । द्विपाचलं हस्तिशैलं
१ 'पपन्न.' २ 'पान्तु.' ३ 'मधु' ४ 'निरूप्यताम् . '
For Private And Personal Use Only