________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-प्रकरणम् १।२ ] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी ॥ ६ ॥
अथ सूर्यवर्णनम् २. अथ पुरतः समापतन्तमरविन्दबान्धवमवलोकयन्नवन्दैतागमसागरपारदृश्वा विश्वावसुः। विश्वावसुः-ब्रह्मचर्यव्रतोत्सर्गगुरवे कोकसन्ततः ॥
छायाविब्बोकलोलाय छान्दसज्योतिषे नमः ॥ ७ ॥
षाविष्करणं “अक्षान्तिाऽसूया तु दोषारोपो गुणेष्वपि" इत्यमरः। यस्य तथाभूतः सन्, पुरोभागिनः दोषैकदृशः "दोषकदृक् पुरोभागी” इत्यमरः । पदं स्थानं "पदं व्यवसित-त्राण-स्थान-लक्ष्माङ्गि-वस्तुषु" इत्यमरः । गतः प्राप्तः अभूत् । अनेन वस्तुतो गुणग्राहित्वेऽपि गुणदाार्थमेव बहिश्यमानं पुरोभागित्वं नटवत्स्वीकृतमिति सूचितम्। “दााय गुणसमृद्धेः" इत्येतद्न्थान्ते तेनैवोक्तत्वात्। विश्वावसुस्तु विश्वं वसु धनं यस्येति “वसू रत्ने धने वसु" इत्यमरः । "विश्वस्य वसुराटोः" इत्यनेन विश्वशब्दस्य दीर्घः । विश्वस्य गुणानां ग्रहणे वर्णने कौतुकी कुतूहलवान् । अभूत् आसीत् । अनेन तेनात्मनाम अन्वर्थकं कृतमिति ध्वनितम् । वृत्तमनुष्टुप् । लक्षणं पूर्व [ ३ श्लो. टीकायाम् ] उक्तम् ॥ ६ ॥
"पुरोभागिपदं गतः” “विश्वगुणग्रहणकौतुकी" इत्यनेनास्मिन्काव्ये प्राधान्यतया विश्वगुण दोषवर्णनमेव विषय इति द्योतितं, तत्र प्रथमतः माङ्गल्यतया च "आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति स्मृतेः “अथादित्य उदयन् यत्प्राची दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु संनिधत्ते यद्दक्षिणां यत्प्रतीची यदधो यदूर्ध्व यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते” इति श्रुतेः। जगत्प्राणभूतत्वेन च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तौति-अथेति । अथ द्वाभ्यां (कृशानु-विश्वावसुभ्यां ) यथायथं खानुरूपस्थानखीकारानन्तरं, पुरतोऽग्रतः समा. पतन्तमुदयमानं अरविन्दबान्धवं सूर्यमवलोकयन्, आगमानां वेदानां सागरस्य पारमन्तं दृष्टवान् इति तथाभूतः । सकलवेदार्थज्ञातेत्यर्थः । दृश्वेत्यत्र "दृशेः क्वनिप्" इति कनिप् प्रत्ययः । विश्वावसुः अवन्दत सूर्य नमश्चकार ।
तदेवाह-ब्रह्मचर्येति । कोकानां चक्रवाकानां "कोकश्चक्रश्चक्रवाकः" इत्यमरः । संततेः समुदायस्य, ब्रह्मचर्यव्रतस्य मैथुनाभावस्य उत्सर्गस्त्यागः तस्मिन् कर्मणि गुरवे आचार्याय । चक्रवाकानां निशि विरहावस्थासत्त्वात् प्रातः सुरतावसरप्रदायकायेत्यर्थः । छायया सूर्यप्रियया "छाया सूर्यप्रिया कान्तिः” इत्यमरः । यो विब्बोको विलासः "स्त्रीणां विलास-विब्बोक-"
१ 'अवन्दतैनम्'. २ 'आगमसार'. ३ 'बिम्बैक'.
For Private And Personal Use Only