________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [उपोद्धातआदत्ते हि तयोः प्रयोग उभयोरामोदभूमोदयम्
सङ्गः कस्य हि न वदेत ? मनसे माध्वीक-मृद्वीकयोः ॥ ४ ॥ विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम् ॥
कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार ॥ ५ ॥ तंत्र
कृशानुरकृशासूयः पुरोभागिपदं गतः ॥ अतिमनोहरं रसिकानां यथेप्सितमनोहरमित्यर्थः । न भवति । तर्हि गद्यमेव कर्तव्यमित्याह । गद्यं च गद्यमपि ( तत्तु कादम्बर्यादिकं) पद्यं विजहत् पद्यरहितं ( विद्यते, तस्मात्तदपि) 'ओहाक् त्यागे' इत्यस्मात् शतृप्रत्ययः । बुधानां उभयोरपि मर्मज्ञपण्डितानां, आखाद्यतां रुच्यहतां न प्रतिपद्यते न प्राप्नोति । तर्हि कि विधमिष्टं स्यादित्याकाङ्कायामाह-आदत्ते इति । हि यस्मात् कारणात् तयोर्गद्य. पद्ययोरुभयोः प्रयोगः प्रकृष्टो योगः अस्ति यस्मिन् सः, अत्र अर्शआदित्वात् मत्वर्थीयोऽच् । तादृशश्रम्पूप्रवन्धः । “गद्य-पद्यात्मकं काव्यं चम्पूरित्यभिधीयते” इति वचनात् । आमोदस्यानन्दस्य "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः" इत्यमरः । भूम्नः अतिशयस्योदयमुत्पत्तिं विधत्ते करोति । हि यतः माध्वीकं मधु च "मधु माध्वीकमद्ययोः" इत्यमरः । मृद्वीका द्राक्षा च "मृद्वीका गोस्तनी द्राक्षा" इत्यमरः । तयोः सङ्गः एकत्र योगः । कस्य मनसे न खदेत कस्य मनसे रुचिं नोत्पादयेत् ? अपि तु सर्वस्मै रोचतेत्यर्थः । 'स्वद आस्वादने' इत्यस्य विधिलिङि रूपम् । मनसे इत्यत्र च "रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । अर्थान्तरन्यासोऽत्रालंकारः । विशेषेण सामान्यस्य समर्थनात् । तदुक्तम्-“सामान्यं वा विशेषो वा तदन्येन सम
र्थ्यते । यत्र सोऽर्थान्तरन्यासः" इति । वृत्तं शार्दूलविक्रीडितम् । लक्षणं प्राक् ( २ श्लोकटीकायां ) कथितम् ॥ ४ ॥
संप्रति कविः खकाव्ये वर्णनीयकथाप्रस्तावमाह-विश्वावलोकेति । कदाचित् विश्वस्य जगतोऽवलोककश्चमत्कारप्रेक्षणं तस्य स्पृहया इच्छया “इच्छा कासा स्पृहेहा तृद" इत्यमरः। समानस्तुल्यो वेष आकल्पः यस्य तत्, कृशानुरिति विश्वावसुरिति च नामधेये नामनी यस्य "भागरूपनामभ्यो धेयः" इति नामशब्दात्स्वार्थिको धेयः। तत् गन्धर्वयोर्युग्मं द्वौ गन्धर्वा वित्यर्थः । विमानं व्योमयानं "व्योमयानं विमानोऽस्त्री" इत्यमरः । आरुह्याधिरुह्य, गगने आकाशे "-गगनमनन्तं” इत्यतः “पुस्याकाश-विहायसी" इत्यन्तोमरः । चचार । उपजातिवृत्तम् । “अनन्तरोदीरित( इन्द्रवज्रोपेन्द्र. वज्रा) लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति तल्लक्षणात् ॥ ५॥
द्वयोर्गन्धर्वयोरवस्थाविशेषमाह-तत्रेति । तत्र द्वयोर्मध्ये इत्यर्थः । कृशानुरिति । कृशानुः कृशानुनामा गन्धर्वः । अकृशा बहुला असूया गुणेषु सत्वपि दो
१ 'आधत्ते'. २ 'रूपम्'. ३ 'तत्र तु'.
For Private And Personal Use Only