________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[सूर्य
कृशानु:-अरे सकल वनसंशोषकारिणं तपनमैपि किं नमनकर्मीकरोषि ? ॥ १ ॥ पश्यपान्थान् दीनानहह वसुमानातपान्धान विधत्ते
शुष्कां पृथ्वी रचयतितरां शोषयत्योषधीश्च ।। इत्यमरः । तस्मिन् लोलाय सतृष्णाय सोत्सुकायेति यावत् । “लोलश्चलसतृष्णयोः" इत्यमरः । छान्दसं छन्दसि भवं वेदप्रतिपाद्यमिति यावत् “तत्र भवः' इति भवार्थेऽण् । ज्योतिस्तेजो यस्य सः तस्मै । तथाच श्रुतिः--"विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः" इति । श्रुत्यर्थस्तु-'विश्वरूपं सर्वरूपं हरिणं किरणवन्तं, जातं वेदो ज्ञानं यस्य तज्जातवेदसं जातप्रज्ञमित्यर्थः । परायणं परं उत्तमं अयनं (प्राणानां ) आश्रयभूतम् । एकं चक्षुर्भूतं ज्योतिस्तेजोरूपं तपन्तं तापक्रियया वर्तमानम् । ब्रह्मविदो विदुरिति शेषः। कोऽसौ यं विदुः तदाह-सहस्ररश्मिरिति । इत्यादि स्पष्टम्।' अथवा छान्दसं “तत्सवितुर्वरेण्यं" इति गायत्रीच्छन्दःप्रतिपाद्यं ज्योतिर्यस्य तथाभूतः। तथा चायमर्थः'यः सूर्यो नः सर्वेषामस्माकं धियो बुद्धीः प्रेरयति, तस्य जगदुत्पादकस्य सवितुः। तत् प्रसिद्धं वरेण्यं श्रेष्ठं भर्गस्तेजो वयं धीमहि ध्यायेमेत्यर्थः' इति । तादृशाय सूर्याय नमः नमस्करोमीति यावत् । 'नमःखस्ति' इत्यादिना चतुर्थी । वृत्तमनुष्टुप् ॥ ७ ॥
सूर्य वर्णयन्तं विश्वावसुं दृष्ट्वा जगत्संतापकारित्वं तद्दोषमुद्भाव्याह कृशानु:-अरे इति । अरे भो विश्वावसो, सकलभुवनानां संशोषणं करोतीति तथाभूतं "सुप्यजातौ-" इति ताच्छील्ये णिनिः । अत एव तपनं तप्यते अनेन जगदिति तं, "कर. णाधिकरणयोश्च" इति ल्युट । तापरूपमपि सूर्यमित्यर्थः। किं कथं नमनक्रियायाः कर्मरूपं करोषि । तं नमस्करोषीत्यर्थः । अभूततद्भावे चिः । तस्मिंस्तापकारित्वदोषसत्त्वात् नमनमयुक्तमिति भावः ॥ १॥ तदेवाह-पश्येति ।
पान्थानिति । अयं वसुमान् वसवः किरणा: विद्यन्ते अस्येति विग्रहः । "तदस्यास्त्य-" इति मतुप । किरणवान सूर्य इत्यर्थः । "रश्मौ वसू रत्ने धने वसु" इत्यमरः । दीनान् अध्वगमनखिन्नान् पान्थान् पथिकान् “पन्थो ण नित्यम्" इति णः । आतपान्धान आतपेन प्रकाशेन "प्रकाशो द्योत आतपः" इत्यमरः । अन्धान् दृष्टिहीनान् विधत्ते करोति । अहह इति खेदे । एतदतिकष्टमित्यर्थः । दीनान् पान्थान् इत्यनेन दीनानामेव क्लेशाधिक्यं सूचितं, ये तावददीनाः संपत्तिमन्तः, ते तु छत्र-शकटादिसाधनैरातपं दूरीकर्तुं शक्नुवन्ति । तस्मात् दीनानां क्लेशदायित्वं महतामयुक्तमिति भावः । तथा पृथ्वीं शुष्कां जलहीनां "शुषः कः" इति निष्ठातस्य कः। रचयतितरां अतिशयेन करोति । रचयति इत्यस्मात् अति. शयार्थे 'तिङश्च' इत्यनेन तरप्, तदन्ताच “किमेत्तिङव्यय-" इत्यादिना आमुः।
१ सखे कथं'. २ 'भुवनशोषकारिणं'. ३ 'तपनमपि नमनक०'.
For Private And Personal Use Only