________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
विश्वगुणादर्शचम्पू:- श्रीरामानुजगरिष्ठेष्वपि सन्नह्यसि ? अथवा भवादृशानां कृशविवेकानां का नाम मर्यादा? ॥ ९३ ॥ उक्तं हि'अनल्पकं धरायां हि सर्वज्ञस्यापि दारुणाः ॥ आरोपयन्ति मालिन्यं काकोला इव ते खलाः ॥२३८॥ इति । पश्य तावदेतेषां पवित्रतमं चरित्रम् ॥ ९४ ॥ उच्छिष्टान्यतिदूरतः परिहरन्त्युज्झन्त्यसत्सङ्गतिं
प्राणापत्स्वपि बान्धवेतरगृहे प्राश्नन्ति नापोऽप्यमी ॥ काम्यं निर्मिमते न कर्म भगवत्कैंकर्य एव स्थिताः ___ सत्त्वस्थैः स्पृहणीय एष जयति श्रीवैष्णवानां क्रमः॥२३९॥ किं च-- भाले शुद्धमृदूर्ध्वपुण्डूतिलकः पद्माक्षमाला गले
दिव्यं शङ्खरथाङ्गचिह्नमनिशं दीप्तं भुजामूलयोः ॥ वक्त्रे शौरिगुणैकवर्णनपरा वाचस्तदेनोमुचा
मेतेषां हरिभक्तितुन्दिलहृदां वीक्षापि मोक्षावहा ॥ २४० ॥ जाचार्यस्य दर्शने शास्त्रे एका अनन्या निष्ठा श्रद्धा येषां तेषु अत एव गरिष्टेषु श्रेष्ठेषु संनह्यसि दोषारोपणे प्रवर्तसे ? अथवा भवादृशानां त्वादृशानां कृशविवेकानां अल्पविचाराणां का नाम मर्यादा स्थितिः ? कापि नैवेत्यर्थः ॥ ९३ ॥
अनल्पकमिति । धरायां भूमौ ते खलाः काकोला द्रोणकाका इव 'द्रोणकाकस्तु काकोलः” इत्यमरः । सर्वज्ञस्यापि अनल्पकं मालिन्यं दोषमशुद्धिं च आरोपयन्ति प्रापयन्ति हि । पक्षे सर्वज्ञस्य शिवस्यापि अनल्पायां कन्धरायां ग्रीवायां मालिन्यं नैल्यं काकोलाः कालकूटा इव ॥ २३८ ॥
पश्यति । पवित्रतममतिपवित्रम् ॥ ९४ ॥
तत्राद्यं शिष्टपसावभुक्तिरूपं दोषं निवारयति-उच्छिष्टानीति । अमी रामानुजीयाः उच्छिष्टान्यन्नानि अतिदूरतः परिहरन्ति, असद्भिः संगतिं सहभोजनादिरूपां उज्झन्ति त्यजन्ति, प्राणापत्सु सतीष्वपि बान्धवेतरगृहे अपोऽपि उदकान्यपि न प्राश्नन्ति, काम्यं स्वर्गादिहेतुकं कर्म न निर्मिमते न कुर्वन्ति । किंतु भगवतः कैंकर्ये पूजादिरूपसेवायामेव स्थिताः । अत एव एषः उक्त विधः श्रीवैष्णवानां क्रमः रीतिः सत्त्वस्थैः सात्त्विकैः स्पृहणीयः कामनीयः सन् जयति ॥ २३९ ॥
भाल इति । यस्मादेतेषां भाले शुद्धमृदा श्वेतमृत्तिकया गोपीचन्दनरूपया ऊर्ध्वपु. ण्ड्रात्मकस्तिलकः, गले पद्मबीजमयी अक्षमाला, भुजामूलयोर्बाह्वग्रयोः अनिशं दिव्यं १ 'अविवेकानां.' २ 'अतिमात्रं'. ३ 'उच्छिष्टानपि'. ४ निर्ममते'. ५ 'जगति'.
For Private And Personal Use Only