________________
Shri Mahavir Jain Aradhana Kendra
२००
www. kobatirth.org
विश्वगुणादर्शचम्पू:
च
हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे
पश्वालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ? ॥
हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य
स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट् ॥ ३६६ ॥ इदं चावधेयम् —
हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि जैनेतरो यदि जनो भजते जुगुप्साम् ॥
अपि
Acharya Shri Kailassagarsuri Gyanmandir
[ तुण्डीरमण्डल
तेः परस्मैपदविधानात् शतृप्रत्ययः । ननु तर्हि स्खैः आत्मीयैः अन्नैः भगवतः आराधनं नैवेद्यार्पणरूपमपि न कल्पेत न क्रियेत । तस्याप्यत्पत्वादिना भगवदाराधनानर्हत्वादिति भावः । प्रयत्नेन अनिन्द्यप्रयासेन शुचि याजनाध्यापनादिव्यापारलब्धत्वात् पवित्रं किमपि यत्किचित्खल्पमपि द्रव्यं लब्ध्वा संपाद्य तेनेति शेषः । भगवतः ईश्वरस्य कैङ्कर्ये पूजननैवेद्यार्पणादिरूपं कृतं चेत् तदेव अध्वरमयं यज्ञप्रचुरं यज्ञरूपमि - त्यर्थः । किमिति न भवति ? अपि तु भवत्येवेति । एवं च यदि कलौ यज्ञकरणमयुक्तं स्यात्, तर्हि भगवत्पूजनादिकमपि त्वन्मते त्याज्यमेव स्यात् । उभयोरपि यज्ञत्वाविशेषाद्द्रव्यानर्हत्वस्य चापि समत्वादिति भावः ॥ ३६५ ॥
किंच हिंसादिति । 'हिंसाकृत् प्राणिप्राणवियोगानुकूलव्यापारकर्ता जन: प्रत्यवेयात् दोषीभवेत्' इवि यः वेदः "न हिंस्यात् सर्वाभूतानि" इत्यादिरूपः कथयति, एष एव वेदः यागे यज्ञे पशो: आलम्भं वधं “ अग्नीषोमीयं पशुमालभेत " इत्यादिनेति भावः । विधत्ते कथयति यदि, तर्हि इह मखे यज्ञविषये कः वेदमधीते वेद वा वैदिकः वेदवेत्ता पुरुष इत्यर्थः । संशयीत संदेही स्यात् ? अपि तु न कोऽपि संशयीतेति । उभयत्र ग्रामाण्ये संशयाभावादिति भावः । अपि च रामानुजार्यो रामानुजाचार्यस्तु, अध्वरे यागे या पशोर्निहतिर्वधः तस्याः हिंसात्वस्य अभावमेवाह । तथा च मनुरपि - " यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।” इत्याह । तस्मात् तस्य रामानुजार्यस्य पक्षे मते तिष्ठतीति तन्मतस्थः, तन्मताभिमानीत्यर्थः । सोऽपि, अपिशब्दोऽस्य विधेः सार्वत्रिकत्वबोधनार्थः । सन् यो जनः यजने यज्ञकर्मणि न प्रसजति नोद्युक्तो भवति, 'षञ्ज सङ्गे' इत्यस्मात् प्रपूर्वकाद्धातोर्लट् । “दंश सञ्ज- खञ्जाम्-" इति नलोपः । तस्मात्पुरुषादन्यः कः पुरुषः गुरुं द्वेष्टीति तथोक्तः गुरोर्द्वष्टेत्यर्थः । भवति ? अपि तु स एव तथाविध इत्यर्थः ॥ ३६६ ॥
किंच हिंसान्तरेष्विति । यदि जैनात् महावीरजिन स्थापितमतानुयायिनः श्रावकादेः इतरः भिन्नः जनः हिंसान्तरेष्विव यज्ञकर्मबहिर्भूत केवलखशरीरपोषणार्थे कृतेषु पशुवधेष्विव, मखे यज्ञे आश्रितं श्रुति स्मृति विहितत्वादवश्यप्राप्तं तच्च तद्धिं
For Private And Personal Use Only