________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता। १९९
विश्वावसुः-स्थूलमनीष मृषा किमिति भाषसे ? ॥ १५७ ॥ यत:शिष्टेभ्यः प्रतिगृह्य वित्तमुचितं संपाद्य विद्याः कलौ
श्रद्धालून् श्रुति-कल्पसूत्रचतुरान् लब्ध्वा शुचीनृत्विजः ।। प्रीतिं भागवतीं प्रकाममभिसंधायाहरन्तः क्रतून्
धीमन्तो युगमन्तिमं तु कृतयन्त्यन्तर्मुखाः संततम् ॥३६४॥ किंचअयज्ञाहद्रव्या वयमिति तु यज्ञाद्विरमताम्
न कल्पेत खान्नैर्ननु भगवदाराधनमपि ॥ प्रयत्नेन द्रव्यं शुचि किमपि लब्ध्वा भगवतः
कृतं चेत्कैकय किमिति न तदेवाध्वरमैयम् ॥ ३६५॥ टोमः मुखं आदिर्येषां ते मखाः यज्ञाः क्व ? तथैव सा प्रसिद्धा अग्नेश्चयनमग्निचित्या अग्निसंचयनादिक्रिया "चित्याग्निचित्ये च" इति निपातनात् चिनोतेः क्यप तुगागमश्च । क्वत्या कुतः प्राप्ता भवति ? अपि तु एतत्पूर्वोक्तं सर्वमपि दुर्लभमेवैतेषामिति भावः ॥ ३६३ ॥
स्थूलेति । हे स्थूलमनीष मन्दमते, किमिति पूर्वोक्तरूपं मृषा मिथ्या भाषसे ? ॥ १५७॥
मिथ्यात्वमेवाह-शिष्टेभ्य इति । धीमन्तः ईश्वरतोषककर्मबुद्धियुक्ताः अत एव संततं निरन्तरं अन्तः हृदयस्थपुण्डरीके मुखं मुखमिव चित्तं येषां ते तथाभूताः शिष्टेभ्यः जनेभ्यः उचितं यज्ञाद्यनुष्ठानपर्याप्तं वित्तं द्रव्यं प्रतिगृह्य स्वीकृत्य, कलौ अपि विद्याः वेदशास्त्रादीः संपाद्य, श्रुतयः वेदाः कल्पसूत्राणि आश्वलायनापस्तम्बीयादीनि च तेषु चतुरान् निपुणान् श्रुत्यादीनां यथार्थज्ञानयुक्तानित्यर्थः । किंच श्रद्धालून वेद-शास्त्रोक्तकर्मसु विश्वासयुक्तान् , अत एव शुचीन् पवित्रान् ऋत्विजः लब्ध्वा, भागवतीं परमेश्वरसंबन्धिनी प्रीति संतोषं अभिसंधाय निश्चित्य, न तु खार्थे पारलौकिकसुखं अभिसंधाय, प्रकामं यथेच्छं क्रतून आहरन्तः कुर्वन्तः सन्तः, अन्तिमं चरंमं युगं कलियुगं कृतयन्ति कृतयुगमिव संपादयन्ति ॥ ३६४ ॥
एतावता कलौ यज्ञकरणस्य युक्तत्वं प्रतिपादितम् , इदानीं अल्पधनत्वादिनोक्तं दूषणमुद्धारयन्नाह-अयज्ञाहेति । वयं यज्ञस्याह विहितव्यापारागतं कर्मपर्याप्तं च गव्यं येषां ते तथा न भवन्तीत्ययज्ञार्हद्रव्याः इति हेतोस्तु यज्ञात् यज्ञानुष्ठानात् विरमतां यज्ञानुष्ठानमकुर्वतामित्यर्थः। "जुगुप्सा-विराम-प्रमादार्थानाम्-" इत्यादिवार्तिकेनापादानसंज्ञा । 'विरमताम्' इत्यत्र च "व्यापरिभ्यो रमः" इति सूत्रेण विपूर्वकस्य रम
१ 'लक्ष. २ परिगृह्य'. ३ 'समम्'.
For Private And Personal Use Only