________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता । आशापालेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु
प्रायो भूयस्सु जाग्रत्स्वपि च शुचितया भासुरा भूसुराद्याः ॥ यस्मै कालत्रयेऽपि प्रतिदिवसममी कुर्वतेऽर्ध्यप्रदानं
सैषा त्रय्येव विद्या तपति रविमयी सर्वलोकान् पुनाना ॥११॥
भास्करादिच्छेत्” इत्याद्यागमात्सूर्यस्यैव रोगनाशकरत्वं प्रसिद्धम् । अत्र प्रतिपादान्ते समानवर्णानां पुनः पुनः श्रवणात् यमकालंकारः । 'अर्थे सत्यर्थभिनानां वर्णानां सा पुनः श्रुतिः । यमकं पाद-तद्भागवृत्ति-" इत्यादितल्लक्षणात् । वंशस्थवृत्तम् । “ज-तौ तु वंशस्थमुदीरितं ज-रौ' इति तल्लक्षणात् ॥ १० ॥
किंच आशापालेष्विति । अमी शुचितया अन्तःकरणशुद्ध्या भासुरा दीप्तिमन्तः 'भासू दीप्तौ' इत्यस्मात् 'भञ्ज-भास-मिदो घुरच्' इति घुरच् प्रत्ययः । भूसुरा ब्राह्मणा आद्याः येषु ते । ब्राह्मण-क्षत्रिय-वैश्या इत्यर्थः । पाशायुधो वरुणश्च "प्रचेता वरुणः पाशी" इत्यमरः । यमश्च बलं बलनामानमसुरं भिनत्तीति बलभिदिन्द्रश्च अत एवामरे तस्य बलरातित्वमुक्तम् "बलारातिः शचीपतिः” इति । “अन्येभ्योऽपि दृश्यन्ते” इति क्विप् । मारुतो वायुश्च “समीर-मारुत-मरुत्-"इत्यमरः । ईश ईश्वरश्च आदयो येषां अग्नि-निर्ऋति-सोमानां तेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु । भूयस्सु बहुषु अष्टखित्यर्थः । आशाः दिशः “दिशस्तु ककुभः काष्ठा आशाश्च" इत्यमरः । पालयन्ति रक्षन्तीति आशापालास्तेषु दिक्पालकेषु, जाग्रत्सु खस्खाधिकारतत्परेषु सत्स्वपि । 'जाग निद्राक्षये' इत्यस्मात् शतृप्रत्ययः। यस्मै सूर्यायैव प्रतिदिवसं कालत्रयेऽपि प्रातर्मध्याह्ने सायं चेति त्रिकालमित्यर्थः । प्रायः अय॑स्य प्रदानमर्पणं कुर्वते कुर्वन्ति । 'डुकृञ् करणे' इत्यस्माद्वर्तमाने लट् । 'अत उत्सार्वधातुके' इति गुणो. त्तरमुकारादेशः । “आत्मनेपदेष्वनतः” इति झस्यादादेशः । केचिजनाः सूर्यादन्यां देवतामपि भजन्ते, किंतु न सूर्य विहाय, अपि तु प्रथमं संध्यावन्दनसमये सूर्यायाऱ्या प्रदायैव भजन्ते, इति 'प्रायः' इत्यनेन सूचितम् । संध्यावन्दनमन्तरान्यस्मिन् कस्मिश्चिदपि कर्मण्यनधिकारात् । अर्घ्यप्रदानं हि गायत्रीमन्त्रेण विहितं, स च मन्त्रो वेदत्रयादुद्धृतः, अत एव तस्य त्रिपात्त्वं, तदुक्तं मनुना-"त्रिभ्य एव तु वेदेभ्यः पादं पादमददुहत्” इति । यस्मादेवं तस्माद्भगवान् सूर्यो वेदत्रयीरूप एवेति संभाव्याहसैषेति ।सा एषा मूर्तिमती रविमयी सूर्यरूपा, सर्वलोकान् पुनाना पवित्रयन्ती सती 'पूञ् पवने' इत्यस्मात् शानच् । त्रयी वेदत्रयीरूपा विद्यैव "स्त्रियामृक्साम-यजुषी इति वेदास्त्रयस्त्रयी" इत्यमरः। तपति प्रकाशते। अत्र सूर्ये वेदत्रयारोपात् उत्प्रेक्षालंकारः। स्रग्धरा वृत्तम्। अस्य द्वयस्यापि लक्षणं प्राक् (प्र. १ श्लोकटीकायां) उक्तम् ॥११॥
For Private And Personal Use Only