________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[सूर्यकृतत्रिदशपोषणं केशरथाङ्गसंतोषणं
पिशाचकुलभीषणं विहितवारिजोन्मेषणं । विनम्रगदशोषणं विहितवारिजोन्मेषणं
__ नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥ इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तबिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् ।
__ अथेदानीं सामान्यतः सूर्यवर्णनमुपसंहरन् एवंविधमहिमवते भगवते तस्मै नमस्काराचरणमेव श्रेय इत्यभिप्रयन्नाह-कृतेति । कृतं त्रिदशानां देवानां पोषणं येन तं, "वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिश्रुतिभिस्तावद्वसन्तादिविशिष्टकाले गज्ञादि कर्म विहितं, तस्मिन् कर्मणि समर्पितहविरा देवानां पोषणं भवति । तत्कालनिर्माणं च सर्वथा सूर्याधीनं, तस्मात् देवतानां पोषणमपि सूर्यायत्तमेवेति भावः । कृशाः निशि विरहेणेति शेषः । खिन्नाः ये रथाङ्गाश्चक्रवाकाः तेषां संतोषण. मानन्दजनकं "कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः" इत्यमरः । तथा पिशाचानां कुलस्य समुदायस्य भीषणं भयोत्पादकम् । पिशाचानामह्नि संचाराभावो हि प्रसिद्धः । तथा पृथुतमश्छटापेषणं तमसः छटा तमसश्छा पृथ्वी महती या तमश्छटा अन्धकारसमुदायः निबिडान्धकार इति यावत् । तस्याः पेषणं नाशकम् । तथा विनम्राणां अनन्यभक्त्या शरमागतानां गदस्य रोगस्य “रोग-व्याधि-गदामयाः" इत्यमरः। शोषणं निवारकम् । विहितं कृतंवारिजानांकमलानां उन्मेषणं विकसनं येन तथाभूतम् । किंच नभः आकाश एव स्थली अकृत्रिमस्थलं “जानपद-कुण्ड-गोण-स्थल" इत्यादिना स्थलशब्दात् अकृत्रिमार्थे ङीष् । तस्याः भूषणमलंकारभूतं, एतादृशं पूषणं भगवन्तं श्रीसूर्य, ननु निश्चयेन नमस्कुरुत । यूयं सर्वे जना इति शेषः । अत्र 'कृतत्रिदशपोषणं' इत्यादिवाक्यस्य नमस्करणहेतुलात् काव्यलिङ्गमलंकारः। पृथ्वी वृत्तम् "द्वितीयमलिकुन्तले गुरुषडष्टमद्वादशं चतुर्दशमथ प्रिये गुरुगभीरनाभिह्रदे। सपञ्चदशमन्तिमं तदनु यत्र कान्ते यतिर्गिरीन्द्र-फणभृत्कुलैर्भवति विद्धि पृथ्वीति सा" इति तल्लक्षणात् ॥ १२॥
इत्थं सामान्यतः सूर्य वर्णयित्वा तद्गतविशेषधर्मानुवर्णनाथ प्रस्तौति कविः-इत्थं विश्वावसुरित्यादिना । इत्थमुक्तप्रकारेण, विश्वावसुः प्राञ्जलिः कृताञ्जलिः सन् , विभावसुं सूर्य "चित्रभानुर्विभावसुः” इत्यमरः। अभिष्टुवन् तस्य स्तुतिं कुर्वन् सन्, कृशानुना सह । अत्र “सहयोगेऽप्रधाने" इत्यनेन तृतीया । द्वादश आत्मानो मासभेदेन अवयवा यस्य स तं, समया सूर्यस्य समीपमित्यर्थः । “द्वादशात्मा दिवाकरः” इत्यमरः । अत्र "अभितः परितः-समया-निकषा-हा-प्रतियोगेऽपि"
१ 'कृत'.
For Private And Personal Use Only