________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [सूर्ययदा न पश्यन्ति तमोविमर्दिनं रविं जनास्तत् कथयन्ति दुर्दिनम् ॥ धिनोति चाम्भोजततिं सरोगतां धुनोत्यसौ देहभृतां सरोगताम् ॥ १० ॥ विसर्गे' इत्यस्माद्यङ्लुकि लटो रूपम् "रुनिकौ च लुकि" इत्यभ्यासस्य रिगागमः । तथा नृणां दृष्टिषु नेत्रेषु "नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी" इत्यमरः। द्राक् उदयसमकालमेव “द्राङ् मङ्घ सपदि द्रुते' इत्यमरः । पुष्टिं पोषणं विशिनष्टि विशेषेणोत्पादयति 'शिष्ल विशेषणे' इत्यस्माद्रुधादिकाल्लट् । तथा स्थिर निखिलनिशां व्याप्य स्थितं ध्वान्तमन्धकारं "अन्धकारोऽस्त्रियां ध्वान्तं” इत्यमरः। पिनष्टि चूर्णीकरोति विनाशयतीति यावत् । 'पिष्ल संचूर्णने' इत्यस्मालट् । किंच प्राज्ञानां यथार्थतया तन्माहात्म्याभिज्ञानां पण्डितानां "धीरो मनीषी ज्ञः प्राज्ञः” इत्यमरः । अपवर्गस्य मोक्षस्य "मोक्षोऽपवर्गः' इत्यमरः। मार्गदं मार्गप्रदातारं, ज्ञानिनो हि सूर्यमण्डलमार्गेण मुक्तिं प्राप्नुवन्ति इति प्रसिद्धिः। तथा च श्रुतिः "अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्ते" इति । "द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धेकोऽपरावृत्तमृतः परः” इति स्मृतिश्च । अपि च पद्माया लक्ष्म्या गृहाणि निवासस्थानानि कमलानि तेषामुल्लासं विकासं करोतीति तथाभूतं, ताच्छील्ये णिनिः । एतादृशगुणविशिष्टत्वादेव च समस्तानां लोकानां सुहृदं निरपेक्षतया हितकर, द्योः आकाशस्य "द्यो-दिवौ द्वे स्त्रियामभ्रं" इत्यमरः । भूष. णमलंकारभूत अमुं, एवं विशिष्टबहुसद्गुणयुक्तं, पूषणं सूर्य "विकर्तनार्क-मार्तण्ड मिहिरारुण-पूषणः" इत्यमरः । कः पुरुषः न स्तौति स्तुति न करोति ? अपि तु सर्व एव स्तुवन्तीत्यर्थः । 'टुञ् स्तुतौ' इत्यस्मात् लद । "उतो वृद्धिः-" इत्यादिना वृद्धिः । न त्वादृशा एव सर्वे वृथादोषैकदर्शिन इति भावः । अत्र 'वृष्टिं घृष्टिभिः' इत्यादौ वर्णसाम्यात् अनुप्रासोऽलंकारः “वर्णसाम्यमनुप्रासः" इति तल्लक्षणात् । तस्यैव वाक्यस्य 'को न स्तौति' इत्यस्य हेतुरूपतया च काव्यलिङ्गं, एवमुभौ मिलित्वा संसृष्टिरलंकारः। तदुक्तम्-"सैषा संसृष्टिरेतेषां ( अलंकाराणां ) भेदेन यदिह स्थितिः” इति । शार्दू. लविक्रीडितं वृत्तम् । लक्षणं प्राकू (२ श्लो० टीकायां) उक्तम् ॥ १ ॥
किंच नैतावदेव किंतु अन्यदपि तन्महत्त्वं शुण्वित्याह-यदेति । जनाः तमः अन्धकार “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्र तिमिरं तमः” इत्यमरः । विमर्दयति नाशयतीति तथाभूतं रविं सूर्य, यदा न पश्यन्ति, तदा तत् दुर्दिनं दुष्टदिनं कथयन्ति। यदा मेघाच्छादनात् सूर्य स्यादर्शनं भवति, तदा लोकास्तदुर्दिन मिति वदन्तीति भावः। तदुक्तममरे' "मेघच्छन्नेऽह्नि दुर्दिनम्” इति । अपि च असौ सूर्यः सरसि सरोवरे "कासारः सरसी सरः” इत्यमरः । गता स्थिता सरोगता तां, अम्भोजानां कमलानां तति समुदायं धिनोति प्रीणयति विकासयताति यावत् 'धिवि प्रीणने' इत्यस्मात् भ्वादेर्लट् । 'धिन्विकृण्व्योरच' इत्यनेन शब्विषये वकारस्याकार उप्रत्ययश्च । तथा देहं बिभ्रति धारयन्ति ते देहभृत; प्राणिनस्तेषां, रोगेण सहिताः सरोगास्तेषां भाबः सरोगता तां, धुनोति नाशयति 'धुञ् कम्पने' इत्यस्य रूपम् । “आरोग्यं
For Private And Personal Use Only