________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [ अयोध्याकिंचदशाननकुशासनत्रसदशेषलोकव्यथा
विलोपकरकोपको वसुमतीसुतावल्लभः ॥ कृपारसमपारसंसृतिपयोनिधेस्तारकं
कृषीष्ट स ऋषीष्टकृत्कृपणतैकताने मयि ॥ ३९ ॥ अपि च
स जयति चित्रचरित्रो यस्य हि वरचरणपुष्करकरेणुः ॥ महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये हेतुः ॥ ४०॥
दशाननेति । किं च पुनः दशाननस्य रावणस्य यत् कुत्सितं शासनं राज्यकरणं तस्मात् त्रसन्तो बिभ्यतो ये अशेषाः सकला लोकास्तेषां व्यथाया दुःखस्य विलोपं नाशं करोतीति तथाभूतः कोपः क्रोधः यस्य सः विलोपकरकोपकः शैषिकः का प्रत्ययः । क्वचित्-'रोपकः' इति पाठस्तत्पक्षे–व्यथाविलोपकरः रोपः बाणः यस्य तथाभूत इत्यर्थः । “पत्री रोप इषुर्द्वयोः” इत्यमरः । एतादृशः वसुमतीसुतायाः पृथ्वीसुतायाः सीताया वल्लभः प्रियकरः । अपि च ऋषीणां इष्टकृत् यज्ञादिसकलकर्मप्रत्यूहभूतरावणादिराक्षसविनाशनेन तत्कर्मप्रवर्तक इत्यर्थः । सः श्रीरामचन्द्रः, कृपणतायाः दीनतायाः एकताने अनन्यवृत्तौ "एकतानोऽनन्यवृत्तिः” इत्यमरः । अत्यन्तकृपणे इत्यर्थः । मयि अपारः तर्तुमशक्यः यः संसृतिपयोनिधिः संसारसागरः तस्मात् तारकं उद्धारकं कृपारसं दयारसं, कृषीष्ट कुर्यात् । 'डुकृञ् करणे' इत्यस्मादात्मनेपदिनः (अयमुभयपदी तस्मादात्मनेपदविवक्षायां) आशीर्लिङि रूपम् । अत्र कृपारसकरणस्य 'दशाननकुशासन-' इत्यादिवाक्यं हेतुरूपं, तेन काव्यलिङ्गमलंकारः। "काव्यलिङ्गं हेतोः-" इत्यादितल्लक्षणात् ॥ ३९ ॥
ननु इतरबहुतरसंसारसागरतारकदेवतासत्त्वात्कुतोयमेव प्रार्थ्यते इत्याशङ्कां निवारयन्नाह-स इति।अपि च न तावत् पूर्वोक्तमेव, अन्यदपि तन्माहात्म्यमस्तीत्यर्थः । तदिदम्-यस्य हि श्रीरामचन्द्रस्यैव वरं श्रेष्ठं यच्चरणपुष्करकं चरणकमलं तत्संबधी रेणुः धूलिः । पक्षे वराण्युत्तमानि चरणानि पुष्करं शुण्डाग्रं "पुष्कर करिहस्ताग्रे वाद्यभाण्ड-मुखे जले । व्योनि खड्गफले पञ" इति नानार्थः । च यस्य तथाभूतः करेणुः गज इति चार्थः । “करेणुरिभ्यां स्त्री नेभे" इत्यमरः । अत एव ( एतद्रामपक्षे) वृषस्य धर्मस्य बलीवर्दस्य च उदये उत्पत्तौ हेतुः कारणं "स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः" इत्युभयत्राप्यमरः । अपिः समुच्चयस्य विरोधस्य च द्योतकः । “गर्हा-समुच्चय-प्रश्न-शङ्का-संभावनाखपि" इत्यमरः । ऋषन्ति जानन्ति तत्त्वमिति ऋषयः 'ऋषी गतौ' इति धातोः "इगु
१ 'विलोपकररोपकः'. २ ‘पयोधिनिस्तारकं'. ३ हेतुम्'.
For Private And Personal Use Only