________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५]
पदार्थचन्द्रिकाटीकासहिता ।
३३
पुनः सानुस्मरणरोमाञ्चम्कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा
काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ॥ सौन्दर्यहीणकामा धृतजनकसुतासादरापानदामा
दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥३८॥ धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः । रचितः । कृतः अंहसां पापानां "पापं किल्बिष-कल्मषम् । कलुषं वृजिनैनोऽघमंहः-" इत्यमरः । प्रशमो नाशो यया तां इमां अयोध्यां नमामि । औपच्छन्दसिकं वृत्तम् , “पर्यन्तेयौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम्” इति तल्लक्षणात् ॥ ३७॥
पुनरिति । अनुस्मरणं मनसि चिन्तनं तेन ये रोमाञ्चाः रोमहर्षास्तैः सहितं यथा भवति तथा प्राहेति ॥
एवमयोध्या वर्णयित्वाथ तत्रस्थं श्रीरामचन्द्रं वर्णयति-कल्याणेति । कल्याणस्य मङ्गलस्य य उल्लास आधिक्यं तस्य सीमा मर्यादा । एतस्मादधिकं कल्याणसाधनं नास्तीत्यर्थः । तथा कालमेघवत् अभिरामा मनोहरा वर्षाकालीनमेघ इव श्यामवर्णेत्यर्थः । अपि च भवः संसारस्तदेव गहनं वनं "गहनं काननं वनम्" इत्यमरः । तस्मिन् गत्या परिभ्रमणेन या क्लान्तिः श्रमः तस्या हारी हरणशीलो विनाशक इति यावत् । प्रणामो नमस्कृतिर्यस्याः सा तथाभूता, यस्याः प्रणाममात्रेणैव सकलसांसारिकदुःखनिरसनं भवतीत्यर्थः । पुनश्च सौन्दर्येण लावण्येन ह्रीणः लज्जितः "हीण-हीतौ तु लजिते" इत्यमरः । कामो मदनो यस्याः सा तथाभूता । अत एव धृता जनकसुतायाः सीतायाः सादरं यथा स्यात्तथा अपाङ्गदामा कटाक्षपतिर्यया तथाभूता च । “अपाङ्गो नेत्रयोरन्तौ कटाक्षोपाङ्गदर्शने” इत्यमरः । यथा दिक्षु पूर्वादिदशदिशासु प्रख्यातः प्रसिद्धः भूमा माहात्म्यं यस्याः सा, तत एव च दिवि खर्गे सीदन्ति तिष्ठन्तीति दिविषदो देवाः 'षद् विशरण-गत्यवसादनेषु' इत्यस्माद्धातोः “सत्सू-द्विष दुह-" इत्यादिना विप् । “आदितेया दिविषदो लेखा अदितिनन्दनाः" इत्यमरः । तैः अभिनुता संस्तुता । एतादृशी साकेतमयोध्या "साकेतं स्यादयोध्यायो" इति कोशः । धाम स्थानं यस्याः सा, काचिदनिर्वाच्या रामनामा रामाख्या देवता, सर्वेषामिति शेषः । कुशलं क्षेमं कलयतु करोतु । अत्र'सीमा-धामा-दामा-नामा' इति सर्वत्र स्त्रीत्वविवक्षायां "डाबुभाभ्यामन्यतरस्याम्" इति डाप्प्रत्ययः । स्रग्धरा वृत्तम् लक्षणं पूर्वोक्तं ( १ श्लोकटीकायामुक्तम् ) ॥३८॥
'धामा'.
For Private And Personal Use Only