________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
विश्वगुणादर्शचम्पू:- [चञ्जीपुरीवि०-विरुद्धबुद्धे ! विवेकमेव तावदविवेकमाकलयसि ॥१६२।। तथाहिसंपद्वन्यसरिज्झरी सहचरी शम्पासमं प्राभवम् .. ___ नार्यः सूर्यकरावलीढरजनीच्छायासुहृद्यौवनाः ॥ देहः स्नेहविहीनदीपसख इत्यालोच्य पृथ्वीश्वराः
प्राणान् जुह्वति नाकमाकलयितुं शुद्धा हि युद्धानले ॥ ३७८ ॥ इत्यर्थः । विलोचनयोनॆत्रयोर्गुणैः विशालत्व-सुभगत्वादिरूपैः, अम्भोजानां कमलानां दम्भद्रुहः गर्वविनाशयित्रीः, किंच कल्याणीः कल्याणगुणयुक्ताः राज्यसंपत्तिवर्धकसल्लक्षणैर्युक्ता इत्यर्थः । एतादृशोऽपि तरुणीः स्त्रीः उपेक्ष्य अनादृत्य, अत एव करुणया दयया हीनः रहितः नृवरः राजा, शत्रोः धरां पृथ्वी चिरात् चिरकालपर्यन्तं हतु अपहर्तुमभिलषन् काङ्क्षमाणः सन् , ससेनः सेनया सहितः खयं रणे युद्धे मर्तु प्राणांस्त्यक्तुं समुज्जृम्भते उद्युक्तो भवति । बहुलधन-दारादिसंपनं खराज्यमुपेक्ष्य परराज्याभिलाषकरणमविवेकमूलमिति भावः ॥ ३७७ ॥
विरुद्धेति । विरुद्धा युक्तायुक्तविवेकशून्या वस्तुस्थित्यननुरूपा वा बुद्धिर्यस्य तत्संबुद्धौ हे विरुद्धबुद्धे इति । विवेकमेव क्षत्रियं प्रति त्वदुक्तरीत्या एव विहितत्वादिति भावः । तावत्साकल्येन अविवेकभाकलयसि कथयसि । त्वमिति शेषः ॥ १६२ ॥
संपदिति । हि यस्मात् कारणात् शुद्धाः शास्त्रविहिताचरणेन निर्मलान्तःकरणाः पृथ्वीश्वरा राजानः, संपत् संपत्तिः वने भवा वन्या सा चासौ सरितो नद्याः झरी प्रवाहः वर्षाकालोत्पन्नवन्यक्षुद्रसरित्प्रवाह इत्यर्थः । तस्याः सहचरी सदृशी, तद्वचञ्चलेत्यर्थः । प्रभोः भावः प्राभवं प्रभुत्वं, शम्पया विद्युता "शम्पा शतहदा-हादिन्यैरावत्यः क्षणप्रभा । तडित् सौदामिनी विद्युत्" इत्यमरः । समं तुल्यं, तद्वत् क्षणिकमित्यर्थः । तथा नार्यः स्त्रियः, सूर्यस्य करैः किरणैः अवलीढायाः व्याप्तायाः तत्प्रसरपर्यन्तस्थायिन्या इत्यर्थः । रजन्याः रात्रेः छायायाः सुहृत् मित्रभूतं सदृशमिति यावत् । यौवनं तारुण्यं यासां तास्तथोक्ताः, सूर्योदयपर्यन्तस्थायिरजनीवत् खल्पकालपर्यन्तस्थायितारुण्यावस्था इत्यर्थः । अपि च देहः स्नेह विहीनः तैलरहितः यो दीपस्तस्य सखा, तद्वदकालनश्वर इत्यर्थः । एवं च धन-दारा-शरीरादिकं सर्वमप्यनित्यमित्यर्थः । इति एवंप्रकारेणालोच्य ज्ञात्वा, न विद्यते अकं दुःखं यस्मिन्निति नाकः स्वर्गः "नभ्राण्-नपान-नवेदा" इत्यादिसूत्रेण निपातनान्ननः प्रकृत्यावस्थानं । तं आकलयितुं संपादयितुं युद्धानले युद्धानौ प्राणान् जुह्वति त्यजन्ति। अयमेव राज्ञां मुख्यो धर्म इति ज्ञेयम् । तदुक्तम्--" द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धेकोऽपरावृत्तमृतः परः।" इति । भगवद्गीतायामपि" यदृच्छया चोपपन्नं खर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ।" इति । एवं च विवेक एवायमिति भावः ॥ ३७८ ॥
१ 'आकलयति भवान्'. २ 'जलद'.
-
-
For Private And Personal Use Only