________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३०] पदार्थचन्द्रिकाटीकासहिता। २०५
वि०-वयस्य गुणान्वयस्य पुनरस्य नगरस्य निन्दाच्छद्मना प्रशंसामेव भवान् कृतवान् ॥ १६० ॥
यतःपुरातनानां हि पुरान्तराणां प्रशासितारोऽपि दिशासु भूपाः ॥ पुरं तदेतद्वपुरन्तमाजौ हन्ताभ्युपेत्याप्यलमर्थयन्ति ॥ ३७६ ॥ कृशा-निरूपणमभिनीय साखरसम्
हन्त चिरन्तनानामिदानींतनानां च वसुन्धराधुरंधराणामवारणीयोऽसावविवेकः ॥ १६१ ॥
पश्यप्राज्ये हन्त धने स्थितेऽपि नृवरो राज्येऽपि सत्यूर्जिते
संभोगानुगुणा विलोचनगुणैरम्भोजदम्भद्रुहः ॥ कल्याणीस्तरुणीरूपेक्ष्य करुणाहीनः ससेनः स्वयम्
हर्तुं शत्रुधरां चिरादभिलषन् मर्तुं रणे जृम्भते ॥ ३७७ ।। वयस्येति । हे वयस्य मित्र, गुणानां शम-दामादीनां पूर्वश्लोकप्रतिपादितानां शौर्य-तेजआदीनां च अन्वयः संबन्धो यस्मिन् तस्य पुनरस्य नगरस्य चञ्जीपुरस्य निन्दायाः छद्मना निमित्तेन, प्रशंसामेव स्तुतिमेव भवान् कृतवानकरोः ॥ १६० ॥
पुरातनामिति । हि यस्मात्, दिशासु दशदिक्षु, स्थितानामिति शेषः । पुरातनानां पुराणानां, पुराशब्दात् ट्युः तुडागमश्च "पुराणे प्रतन-प्रत्न-पुरातन-चिरतनाः ।" इत्यमरः । पुरान्तराणां अन्यनगराणां प्रशासितारोऽपि रक्षितारोऽपि सन्तः, सर्वे भूपा राजानः हन्तेत्यानन्दे । आजौ युद्धे वपुषः शरीरस्य अन्तं नाशं अभ्युपेत्य स्वीकृत्यापि, तत् प्रसिद्धमेतत्पुरं नगर अलं अत्यर्थं अर्थयन्ति इच्छन्ति । 'युद्धे मरणमपि भवतु, परं च बहुतरसंपद्युक्तेऽस्मिन्नेव पुरेऽस्माभिर्वर्तितव्यं' इति वाञ्छन्तीत्यर्थः ॥ ३७६ ॥ निरूपणमिति । साखरसं अस्वरसेन असंतोषेण सहितं यथा तथा--
हन्तेति । चिरंतनानां पुरातनानां इदानींतनानां च, अत्राप्युभयत्र “सायं-चिरे." इति सूत्रेण ट्युः तुद् च । वसुंधरायाः पृथ्व्याः धुरंधराणां भारभृतां राज्ञां, असौ वक्ष्यमाणः अवारणीयः निवारयितुमशक्यः अविवेकः अविचारः । अस्तीति शेषः १६१
अविवेकमेवोपपादयति-प्राज्य इति । हन्तेति खेदे। प्राज्ये बहुले “प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु ।" इत्यमरः । धने स्थिते सत्यपि, तथा राज्ये ऊर्जिते घनादिसंपन्ने च सत्यपि, तथैव संभोगस्य सुरतस्य अनुगुणाः अनुरूपाः, सुरतयोग्या
१ 'प्रशाधितारो हि'. २ 'अर्थयन्ते'. ३ 'साश्चरसं', 'ससाध्वसं'. ४ 'कल्याणी
रुदती'.
For Private And Personal Use Only