________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३ ] पदार्थचन्द्रिकाटीकासहिता ।
२९ अथवा यदि ते मद्वचसि न विस्रम्भस्तर्हि तत्र तत्र संचारमारचय्य तत्तद्गुणदर्शनं करवाव ॥ १२ ॥
अथ बदरिकाश्रमवर्णनम् ४.
इति विमानमग्रतः प्रस्थापयन्नङ्गुल्या निर्दिश्यविश्वा०
इदं बदरिकाश्रमस्थलमिहेष नारायण__ 'स्तपस्यति नमस्यतां स्थिरतमं तमः शोषयन् ॥ विकासिधिषणोन्मिषद्विषयवर्जनाः सज्जना
___ जनार्दनमहर्दिवं भुजगमञ्चमर्चन्त्यमी ॥ ३३ ॥ बहवो दृश्यन्त एवेत्यर्थः । हरिणीवृत्तम् । लक्षणमुक्तं प्राक् (२६ श्लोकटीकायाम् ) ॥ ३२॥
खवचसि कृशानोः किंचिद्विश्वासवैधुर्यं दृष्ट्वा बदरिकाश्रमादिपुण्यक्षेत्रवर्णनप्रस्तावार्थमाह-अथवेति । अथवेति पक्षान्तरे । यदि मदीये मदुक्के वचसि भाषणे न विस्रम्भः विश्वासो नास्ति चेत् , “समौ विस्रम्भ-विश्वासौ" इत्यमरः । तर्हि तत्र तत्र पुण्यक्षेत्रे संचारं गमनं आरचय्य कृत्वा, तत्तद्गुणदर्शनं तत्तत्पुण्यक्षेत्राणां सम्यग्गुणनिरीक्षणं करवाव कुर्वः ॥ १२ ॥
इति एवमुक्त्वा विमानमग्रतः अग्रभागे प्रस्थापयन् प्रापयन्नङ्गुल्या निर्दिश्य; किंचित् प्रदेशमिति शेषः।
इदमिति । इदं पुरोभागवर्ति बदरिकाश्रमाख्यं स्थलं स्थानं, वर्तत इति शेषः । इह अस्मिन् बदरिकाश्रमे एष प्रसिद्धो नराणां समूहो नारं जीवसमूहः तस्य अयनं आश्रयः । यद्वा नारं उदकं अयनं आश्रयो यस्य सः जलशायीत्यर्थः । तदुक्तं मनुस्मृतौ-"आपो नारा इति प्रोक्ता आपो वै नरसूनवः । तस्य ता अयनं प्रोक्तास्तेन नारायणः स्मृतः ॥” इति । नारायणः, नमस्यतां भक्तिभावेन नमस्कुर्वतां जनानां, नमःशब्दात् "नमो-वरिवस्" इत्यादिक्यजन्तात् शतृप्रत्ययः । स्थिरतमं अतिशयेन स्थिर, अतिशायने तमप् । तमः अज्ञानं शोषयन् विनाशयितुम् , हेतौ शतृप्रत्ययः । तपस्यति तपश्चर्या करोति । तपःशब्दात् “तपसः परस्मैपदं च" इति वार्तिकात् क्यङ परस्मैपदं च । अत एव अमी एतत्क्षेत्रनिवासिनः विकासिन्याः परमात्मज्ञानेन विकसनशीलायाः धिषणायाः बुद्धेः "बुद्धिर्मनीषा धिषणा" इत्यमरः । उन्मिषत् उत्पद्यमानं विषयाणां शब्दादीनां वर्जनं निरसनं येषां
१ एतत् क्वचित् कचिन्न दृश्यते. २ 'स्थिरतरम्'.
For Private And Personal Use Only