________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०
विश्वगुणादर्शचम्पू:
[ बदरिकाश्रम
कृशानुः - सखे तवात्र गुणवत्तासमर्थनं न रोचते मह्यम् ॥ १३ ॥
कुत:
यदत्र जागर्ति शिलासमं हिमं सुशीतला गन्धवहाश्च दुःसहाः ॥ जलावगाहाच्चकितो जनस्ततः कुतस्त्वनुष्ठास्यति कर्म निर्मलम् ॥ ३४ ॥ विश्वावसुः — अस्मन्मेतानुकूलमेवैतद्भवति भवदुक्तम् ॥ १४ ॥
तथाभूताः शब्द-स्पर्शादिविषयाद्यनासक्कतया केवलमीश्वरपरायणा इत्यर्थः । अत एव सज्जनाः साधुजनाः, भुजगः शेषः मचः शयनं यस्य तथाभूतं जनार्दनं, जननं जनः भावे घञ् “जनि- वध्योश्च " इति वृद्ध्यभावः । जनः जन्म अर्दयति नाशयतीति विग्रहः । 'अर्द हिंसायाम्' इति धातोर्नन्द्यादित्वात् ल्युः । यद्वा जनैः अर्द्यते प्राप्यते इति विग्रह: । 'अर्द गतौ याचने च' इत्यस्मात् " कृत्यल्युटो बहुलम्" इति कर्मणि ल्युट् । एतादृशं नारायणं अहर्दिवं प्रतिदिनं “ अचतुर- विचतुर- सुचतुर" इत्यादिना समासः । अर्चन्ति पूजयन्ति । पृथ्वी वृत्तम् । लक्षणमुक्तं प्राकू (१२ श्लोकटीकायाम् ) ॥ ३३ ॥
पुनरपि खानुरूपमाह कृशानुः - सखे इति । हे सखे मित्र, तव त्वत्कृतमित्यर्थः । अत्र बदरिकाश्रमे, गुणाः भगवन्निवासादयः सन्ति यस्मिंस्तत् तस्य भावः तत्ता तस्याः समर्थनं प्रतिपादनं, मह्यं मे न रोचते न प्रीणयति । " रुच्यर्थानां " इति चतुर्थी ॥ १३ ॥
कुतो न रोचते इत्याह-यदत्रेति । यद्यस्मात् कारणात् अत्र बदरिकाश्रमे, शिलासमं घनीभूतत्वात् पाषाणसदृशं हिमं तुहिनं “ तुषारस्तुहिनं हिमम्" इत्यमरः । जागर्ति विद्यते । कदापि वसन्त - ग्रीष्मायुष्णकालेऽपि न विनश्यतीति द्योतनार्थं जागृधातोः प्रयोगः । तथा गन्धवहाः वायवश्व “ – वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो -" इत्यमरः । सुतरामत्यन्तं शीतलाः शीतयुक्ताः, अत एव दुःसहाः सोढुमशक्याः वहन्तीति शेषः । तत एव च जले थोऽवगाहः स्नानं तस्मात् चकितो भीतो जनः । जातावेकवचनम् । सर्वेऽपि जनाः स्नातुं न शक्नुवन्तीत्यर्थः । “भीत्रार्थानां भयहेतुः " इति पञ्चमी । ततः ततस्तु उपर्युक्तदोषबाहुल्यादेव निर्मलं पूर्वोक्तं पूजादिरूपं कर्म, कुतः अनुष्ठास्यति तादृशकर्मणोऽनुष्ठानं कथं करिष्यतीत्यर्थः । एवं च पूर्वोक्तं तव गुणवत्ताप्रतिपादनं नात्र संगच्छते इति भावः । वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् ( १० श्लोकटीकायाम् ) ॥ ३४ ॥
एवं कृशानुप्रोक्तं दूषणमपि गुणपरतया संग्रहीतुमाह विश्वावसुः - अस्म दिति । एतत् 'यदत्र जागर्ति शिलासमं हिमं' इत्यादि भवदुक्तं त्वया प्रतिपादितं, अस्माकं मतस्य बदरिकाश्रम महत्त्ववर्णनरूपस्य अनुकूलं युक्तमेव भवति ॥ १४ ॥
१ ‘अस्मदनुकूलमेतद्भवति’.
For Private And Personal Use Only