________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
-वर्णनम् ४ ] पदार्थचन्द्रिकाटीकासहिता । यतःपरमहिमयुतत्वात् प्राप्तवैकुण्ठसाम्यं
पदमिदमुपयान्तः पण्डिताः शान्तिमन्तः ॥ मुहुरिह समयेषु सानहेतोः सरोगा
स्तदपि भृशमरोगास्ता_केतोः प्रसादात् ॥ ३५ ॥
अथायोध्यावर्णनम् ५.
इति विमानमन्यतः प्रस्थाप्य साञ्जलिबन्धम्
तदेवाह-यत इति-परमेति । परमं अतिशयितं च निबिडमिति यावत् । तत् हिमं तुहिनं तेन युतत्वात् युक्तत्वात्, पक्षे पर उत्तमश्चासौ सर्वलोकातिरिक्त इति यावत् महिमा माहात्म्यं च तेन युतत्वात्, प्राप्त विशेषेण कुण्ठः क्रियामन्दः किंचिदपि कार्य कर्तुमशक्त इत्यर्थः । "कुण्ठो मन्दः क्रियासु यः" इत्यमरः। विकुण्ठः, विकुण्ठ एव वैकुण्ठः तस्य साम्यं सादृश्यं येन, पक्षे प्राप्तं वैकुण्ठस्य वैकुण्ठलोकस्य साम्यं येन, तादृशं इदं पदं बदरिकाश्रमस्थानं प्रति, उपयान्तः आगच्छन्तः शान्तिमन्तः शान्तियुक्ताः, पण्डा आत्मज्ञानविषया बुद्धिः सा प्राप्ता येषां ते पण्डिताः। पण्डाशब्दातू तारकादित्वादितच् । इह बदरिकाश्रमे समयेषु प्रातमध्याह्नादिकर्मकालेषु नानहेतोः स्नानकारणादेव “हेतुर्ना कारणं बीजं" इत्यमरः । मुहुर्वारंवारं, सरोगाः शीत-वातादिरोगयुक्ताः, पक्षे सरः सरोवरं गच्छन्तीति तथाभूताः भवन्तीति शेषः । तदपि तथापि, ते तायः गरुडः “गरुत्मान् गरुडस्तायः" इत्यमरः । केतुर्ध्वजो यस्य सः विष्णुः तस्य प्रसादात् अनुग्रहात् भृशमत्यन्तं अरोगा रोगरहिताः कुशलिन इत्यर्थः । भवन्ति । एतदुक्तं भवति यत्पूर्वमुक्तं दूषणं 'जलावगाहाच्चकितो जनः' इत्यादि, तत्तु भगवद्भक्तेषु न संगच्छते, ते तु भगवत्प्रसादानिरन्तरं कुशलिन एव, परं च ये तावदभक्ताः काम-रागादिदोषयुक्ताश्च ते एव भगवदनुग्रहाभावात् शीतादिरोगयुक्ताः भवन्तीति । अत्र विरोधालंकारः। भगवत्प्रसादेन 'सरोगाः' इत्यत्र सरोवरगमनरूपश्लेषार्थेन च विरोधपरिहारः । तदुक्तम्-"विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः" इति । मालिनी छन्दः । “न-न-म-य-य-युतेयं मालिनी भोगिलोकैः” इत्यादितल्लक्षणात् ॥ ३५ ॥ ___ अथ अयोध्यापुरवर्णनमाक्षिपन्नाह कविः-इतीति । इत्येवंप्रकारेणोक्त्वा विमानमन्यतोऽन्यत्र प्रस्थाप्य नीत्वाअञ्जलिः करसंपुटः तस्य बन्धः करणं तेन सहितं यथा तथा आहेति शेषः ॥
For Private And Personal Use Only