________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् २३ ]
पदार्थचन्द्रिकाटीकासहिता ।
अनपायरमो विष्णुः कस्मादपरमो भवेत् ॥ युक्तं रमापतेरन्ये देवास्त्वपरमा इति ॥ ३०३ ॥
किंच——
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पुनः सचमत्कारम् -
जाग्रत्येव शिरांसि नित्यवचसां सर्वोन्नतौ शार्ङ्गिणस्तत्र व्यास - पराशरादिकृतयो दत्तादरा वस्तुतः ॥ यः पादाम्बु ददाति यस्तदुपसंगृह्णाति धत्तेऽथेवा यश्चैतच्छिरसैव तेषु परमं जानाति को नात्मवान् ॥ ३०४॥
pa
१७१
दुर्वादिनो विष्णुपदारविन्दं दोषापहं नानुसरन्ति मोहात् ॥ तेषां मतं तु स्वयमत्र विष्णुपदारविन्दानुसृतिं विधत्ते ॥ ३०५ ॥
एतदेव सोपपत्तिकमाह - अनपायेति । यतः न विद्यते अपायो वियोगो यस्यास्तथाभूता सततमाश्लिष्टेत्यर्थः । रमा लक्ष्मीर्यस्य सः विष्णुः, अपगता वियुक्ता रमा यस्मात् तथाभूतः अपकृष्टरूपश्च कस्माद्धेतोर्भवेत् ? लक्ष्म्याः अनपायित्वं "राघवत्वेऽभवत्सीता विष्णोरेषानपायिनी ।" इत्यादिपुराणग्रन्थैः प्रतिपादितम् । तस्मात् रमापतेर्विष्णोरन्ये देवास्तु अपरमा लक्ष्मीरहिता: अपकृष्टाश्च इति युक्तं योयमेव ॥ ३०३ ॥
अधुनान्यरीत्या सर्वोत्तमत्वं प्रपञ्चयति - जाग्रतीति । नित्यवचसां अविनाशिवचनानां, वेदानामित्यर्थः । शिरांसि उपनिषदः शार्ङ्गिणः विष्णोः सर्वोन्नतौ सर्वोतमत्वे विषये जाग्रति सततं विभान्त्येव । तत्र उपनिषत्प्रतिपादित एवार्थे व्यासपराशरादीनां ऋषीणां, आदिशब्देन वाल्मीकि - वसिष्ठ - मार्कण्डेयादीनां ग्रहणम् । कृतयः पुराणस्मृत्यादिरूपाः, दत्तादराः उपनिषत्प्रतिपादितं तात्पर्यमेव विस्तरेण वर्णयन्त्य इत्यर्थः । नन्वेतद्यद्यपि वेदादिभिः प्रतिपादितं तथाप्यनुभवमन्तरेण अविश्वसनीयमेवेति चेदाह – वस्तुतः तत्त्वतः अत्रार्थे केवलं वेद-शास्त्रादिरूपमेव न प्रमाणं, किंतु प्रत्यक्षमप्यस्तीत्यर्थः । तदेव दर्शयति-य: विष्णुः पादाम्बु पादोत्पन्नं गङ्गाजलमित्यर्थः । ददाति यश्च ब्रह्मा तत् उपसंगृह्णाति स्वीकरोति, कमण्डलुनेत्यर्थः । अथवाऽथ च यश्च श्रीशंकरः तत् पादाम्बु, शिरसा मस्तकेनैव धत्ते धारयति ? तेषु ब्रह्म-विष्णु-शिवेषु मध्ये, परमं श्रेष्ठं आत्मवान् परमात्मज्ञानी को न जानाति ? अपि तु सर्व एव जानातीत्यर्थः ॥ ३०४ ॥
,
दुर्वादिनइति । दुर्वादिना केवलं शिवमेव श्रेष्ठं मन्वानाः दोषापहं पापहरं विष्णोः पदारविन्दं चरणकमलं मोहात् वस्तुतस्त्रयाणामप्येकरूपत्वसत्त्वे स्वमताभि
१ 'मुनयो', 'गुरवो' २ 'गृह्णाति वा' ३ 'नानुसरन्तु'.
For Private And Personal Use Only