________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [कान०नृसिंह'अथ कामासिकानगरवासिनृसिंहवर्णनम् २३.
इत्यन्यतो दृष्टिं विन्यस्य प्राञ्जलिः सन्
श्रीमान्गभीरतरवेगवतीप्रतीर___ भूमावघद्रुहि सुरद्रुरिवावतीर्णः ॥ कामादिवैरिगणमुल्बणमस्मदीयं
कामासिकानरहरिः कवलीकरोतु ॥ ३०१ ॥ इत्यन्यतश्चक्षुर्निक्षिप्य प्राञ्जलिः सन् -
भयार्तजीवातुदयामहिम्ने वैकुण्ठधाम्ने तनवै नमासि
आम्नाय उक्तः परमेशितेति नाम्नाय उक्तः परमत्र चित्रम् ॥३०२॥ युक्तं चैतत् । यतो 'विष्णुः परमः' इति श्रुता श्रुतिः ॥ ११९ ।।
अथ कामासिकावासिनृसिंहवर्णनं सूचयन्नाह कविः-इतीत्यादि । अन्यतः अन्यस्मिन्स्थले दृष्टिं विन्यस्य दत्त्वा
श्रीमानिति । अपेभ्यः पापेभ्यः द्रुह्यति जिघांसतीति अघभुक् तस्यां गभीरतरायाः अतिनिम्नायाः वेगवत्या नाम नद्याः प्रतीरभूमौ तटभुवि सुरद्रुः कल्पतरुरिव अवतीर्णः आविर्भूतः, श्रीमान् लक्ष्मीवान् लक्ष्म्या सहित इत्यर्थः । कामासिकानरहरिः कामासिकानगरनिवासी श्रीनरसिंहः, उल्बणं प्रवृद्ध अस्मदीयं अस्मत्संबन्धिनं कामः आदिः प्रमुखो येषु ते ये वैरिणः क्रोध-लोभादयः शत्रवः तेषां गणं समुदायं कवलीकरोतु ॥ ३०१॥
भयार्तेति । भयेन संसार-भीत्या आर्तानां पीडितानां जीवातुर्जीवनौषधरूपः दयाया महिमा यस्य तस्मै, वैकुण्ठधाम्ने वैकुण्ठनिवासिने इत्यर्थः । नमांसि नमस्कारान् तनवै करोमि । तनोतेरुभयपदिनः आत्मनेपदे लोडुत्तमैकवचनम् । आम्नाये वेदे यः परमेशिता परमेश्वर इति उक्तः, परं च आम्नाये न उक्तः, इत्यत्रार्थे विरोधाभासरूपे इत्यर्थः । परमत्यन्तं चित्रमाश्चर्यम् । वस्तुतस्तु य आनाये परमेशितेति नाम्ना उक्तः कथितस्तस्मै वैकुण्ठधाम्ने इत्यन्वयेन च तत्परिहारः ॥ ३०२॥
युक्तमिति । एतत् परमेश्वर इति श्रुतिकथनरूपं युक्तं योग्यमेव । यतो यस्मात् 'विष्णुः परमः' इति श्रुतिः श्रुता प्रत्यक्षं आकर्णिता । अस्माभिरिति शेषः ॥ ११९॥
१ 'भूमावथ द्रुहि'. २ 'नामासिना नरहरिः', 'कामालिकानरहरिः कबरीकरोतु.' ३ 'ततो'. ४ 'नाम्ने'. ५ 'आम्नाययुक्तः' ६ 'इति श्रुतेः, इति विश्रुतैव तव श्रुतिः'.
For Private And Personal Use Only