________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
विश्वगुणादर्शचम्पू:- [श्रीत्रिविक्रमअथ श्रीत्रिविक्रमवर्णनम् २४.
इत्यन्यतो दृष्टिं निक्षिप्यसमन्तरूढद्रुमपुष्पनिष्पतन्मरन्दसंतत्यभिषिक्तमुत्तमम् ॥ रविक्रमाशुत्वनिरोधिगोपुरं त्रिविक्रमस्यायतनं निशाम्यताम् ॥३०६॥ सविस्मयमभिध्यायन्अव्यादाश्रयतामनश्वरपेदप्रासादनिःश्रेणिका
हर्षादूर्ध्वमुदञ्चितः स चरणस्त्रैविक्रमो नः क्लमात् ॥ त्रैलोक्यार्पणतः सितं शुभयशश्छत्रं यदासीले
घिष्ठो हरिनीलदण्ड इव यस्तद्धारणायोद्धृतः ।। ३०७॥ मानान्धाः सन्तः "शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।" इत्यादितत्त्वाज्ञानाद्धेतोः नानुसरन्ति न भजन्ति । तस्मात्तेषां मतं खयं खत एव अत्र उक्तेर्थे तु विष्णुपदे आकाशे यत् अरविन्दं कमलं कदाप्यसंभवि, तस्यानुसृतिमनुसरणं विधत्ते करोति । यथा तावदाकाशपुष्पं कदाप्यसंभवि तथैतेषां मतं तुच्छमेव भवतीत्यर्थः ।
अत्राप्याकाशे अरविन्दस्य गङ्गाजलरुहस्य आगोपालाङ्गनमाच पण्डितं सर्वसंप्रतिपनत्वाद्विष्णोः पदं व्यवसितं निश्चितमिति यावत् । अर्यते गम्यतेऽनेनेत्यरो मार्ग: विष्णुनिश्चितसिद्धान्तः तं विन्दन्तीति तद्विन्दाः तेषामनुसृति अनुसरणं प्रचारमिति यावत् । इत्यर्थं वदन्ति शैवाः' इति भावदर्पणकृत् ॥ ३०५ ॥
समन्तेति । समन्ते आसमन्तभागे रूढाः वृद्धाः ये दुमा वृक्षास्तेषां पुष्पेभ्यः निष्पतन् निर्गलन् यो मरन्दो मकरन्दः तस्य संततिभिः धाराभिः अभिषिक्तम् , अत एव उत्तम, रवेः सूर्यस्य क्रमे गमने यदाशुत्वं शीघ्रत्वं तस्य निरोधि प्रतिबन्धि गोपुरं पुरद्वारं यस्य तत् “पुरद्वारं तु गोपुरम्" इत्यमरः । एतादृशं त्रिविक्रमस्य एतदाख्यविष्णोः आयतनं स्थानं निशाम्यतामवलोक्यताम् । हे कृशानो, त्वयेति शेषः ॥ ३०६ ॥ । तमेव प्रार्थयते--अव्यादिति । आश्रयतां सेवमानानां जनानां नश्यतीति नश्वरं विनाशि न नश्वरमनश्वरं कालत्रयेऽप्यविनाशीत्यर्थः । नशेः “इण्-नशजि-सर्तिभ्यः-" इति करप् प्रत्ययः । यत् पदं वैकुण्ठस्थानं तदेव प्रासादः तस्य निःश्रेणिका आरोहणसाधनं, तत्प्रापिकेति यावत् । हर्षात् ऊर्ध्व उदञ्चितः उन्नमितः बलिसत्रे इत्यर्थः । यः त्रयो भू-वर्ग-बलिशिरोव्यापनरूपाः विक्रमाः पादक्षेपा यस्य सः त्रिविक्रमः तस्यायं त्रैविक्रमः स चरणः नोऽस्मान् क्लमात् संसारश्रमात् अव्यात् रक्षतु। यस्त्रिविक्रमस्य चरण: यज्ञसमये इति शेषः । त्रैलोक्यस्य अर्पणतः दानाद्धेतोः
१ 'सम्पतन्'. २ 'महा'.
For Private And Personal Use Only