________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
विश्वगुणादर्शचम्पू:
(वेदान्ति
अपरं च
दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या ___ दोषो मिथ्यैवेति या धीरमीषाम् ।। साधिष्ठानांशेपि किं नेति चिन्ता
साधिष्ठानां पण्डितानामुदेति ॥ ५१४ ॥ वि०-वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः ॥ २१७ ॥ पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ
त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम् ।। प्रवृद्धैः स्थिरैश्च व्यसनैः आकुलात् पीडितात्, अत एव च अतिमितमतेः अत्यल्पबुद्धेः जीवादेव, एवकारेणात्यन्तानौचित्यं सूचितम् । अपगतः परिच्छेदः परिमि. तिर्यस्मात् तादृशः य आमोदाम्बुधिः आनन्दसागरः तद्रूपः, अपरिमितानन्दरूप इत्यर्थः । तस्य परमेशितुरीश्वरस्य अभिदामभेदं उपगच्छतां जानतां तेषामद्वैतिना मशकशिशुतः मशकबालात् मदयुक्तस्य हस्तिनः अभेदः कुतो न स्यात् ? अपितु "विद्या-विनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम. दर्शिनः।” इति गीताप्रामाण्यात् शरीरमात्रभेदेन विरोधेऽपि सर्वत्र जीवसाम्यात् स्थादेवाभेद इति भावः ।। ५१४ ॥
दृश्यमिति । द्रष्टुं योग्यं दृश्यं रज्जु-सादि, शुक्ति-रजतादिकं वा, मिथ्या असत्यं, दृष्टेरयं सर्पः, इदं रजतं, इत्यादिभ्रान्तेः कर्ता आश्रयो देवदत्तादिश्चापि मिथ्या, दोषः पित्तादिश्च मिथ्यैव । अत्र दृश्य-दृष्टिकर्तृ-दोषशब्दैः क्रमेण सकलप्रपश्चअन्तःकरणावच्छिन्नचैतन्य-अज्ञानानि ग्राह्याणि । तेनैतत्रयमपि ज्ञानोत्तरकाले बाध. प्रतीतेर्मिथ्यैवावभासते इत्यद्वैतवेदान्तिनामभिप्रायः । इत्युक्तप्रकारा या अमीषामद्वैतवादिनां धीनिं विद्यते, सा दृश्याग्रंशत्रयेऽपि मिध्येति बुद्धिः अधिष्टानं आश्रयः रज्जुः शुक्तिर्वा, परब्रह्म च तस्मिन्नंशेऽपि किं कुतो न भवति ? इत्येवंप्रकारा चिन्ता साधिष्ठानां श्रेष्ठानां पण्डितानां विदुषामुदेति उत्पद्यते । अत्र केचित् 'अज्ञाननाशात् सत्ये अधिष्ठानांशे सा मिथ्याबुद्धिर्नोत्पद्यते इत्यद्वैतिनामभिप्रायः। अत एव आधिना कामादिमनोव्यथया सहिताः तिष्ठन्तीति साधिष्ठाः गाढाज्ञानिनस्तेषामेवेदशी चिन्तेति न्यायावतारः' इत्याहुः ॥ ५१४ ॥
वयस्येति । एवमुक्तप्रकारेण मा विज़म्भिष्ठाः उद्युक्तो मा भव ॥ २१७॥
पारम्पर्यत इति । निजकुले खवंशे परम्परायाः श्रीमद्यास-शंकराचार्यादिप्राचीनसंप्रदायस्य भावः पारम्पर्य तस्मादिति ततः आगतः प्राप्तः पन्था अद्वैतमार्गः न हातव्यः न त्याज्यः । अन्यथा अतिप्राचीनपरंपरागतसंप्रदायत्यागदोषापातप्रस. ङ्गादिति भावः । अनेन अद्वैतसंप्रदायः माध्वरामानुजीयादिसंप्रदायवन्नाधुनिकः, केवलं खकपोलकल्पितसंकेतसिद्धश्च, किंतु अतिप्राचीनश्रुत्सर्थानुसरणपूर्वकं श्रीमद्यास
For Private And Personal Use Only