________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
वेदान्ति
विश्वगुणादर्शचम्पू:- अथ वेदान्तिवर्णनम् ४३.
कृ०-सत्यं पुनर्मामराणामप्येषां न रोचते नमस्क्रिया । यदेतेषु मिथ्यावादिन एव बहुलमुपलभ्यन्ते । अमी खलु प्रामाणिका) दूरीकृत्याप्रामाणिकमर्थमुररीकुर्वन्ति ॥ २१२ ॥
तथाहिप्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति ।। सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च परं बत निर्विशेषम् ५०८
सत्यमिति । सत्यं 'क्रियासार्थित-' इत्यादिनो तथ्यमेव, पुनः किंतु एषां मह्यमराणामपि ब्राह्मणानामपि, अपिशब्दात्तत्वतस्तेषां पूज्यत्वं सूचितम् । नमस्किया नमस्करणं, मह्यमिति शेषः । न रोचते । यद्यस्मादेतेषु ब्राह्मणेषु मध्ये मिथ्यावादिनः प्रपञ्चमिथ्याभाषिणः, असत्यभाषणशीला एव च बहुलं उपलभ्यन्ते दृश्यन्ते । अमी ब्राह्मणाः खलु प्रमाणेन चक्षुरादीन्द्रियसंनिकर्षेण प्रत्यक्षतया सिद्धः प्रामाणिकः, शास्त्रतः सिद्धश्च तमर्थ शरीरादेः सत्यत्वादिकं कर्तव्यादिकं च दूरीकृत्य परित्यज्य, अप्रामाणिकं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, न चक्षुषा गृह्यते नापि वाचा, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुते. न" इत्यादिश्रुतिभिः सर्वप्रमाणागोचरं, स्वकपोलकल्पितं च अर्थ उररीकुर्वन्ति अङ्गीकुर्वन्ति ॥ २१२ ॥
उक्तमेवार्थ विशदीकरोति-प्रत्यक्षगोचरमिति । प्रत्यक्षस्य चक्षुरादीन्द्रियजातस्य गोचरं विषयीभूतमपि, सौराकीटपतङ्गमा च देवर्षिभ्यः साक्षात्क्रियमाणतया दुःशकापह्नवमपीत्यहोसाहसमिति भावः । अशेषं सकलं प्रपञ्चं चराचरात्मक जगत् इमे पुरोदृश्यमाना मायाया। अविद्यायाः संबन्धो येषां ते मायिनः, संबन्धे मतुप् । स च प्रतिपाद्यप्रतिपादकभावः । मायावादिन इत्यर्थः । पक्षे मायिनः कपटिनः मिथ्येति स्वेन रूपेण निस्तत्त्व इति प्रतिपादयन्ति । “सर्व विकारजातं माया• मात्रं" "द्वितीयकारणाभावादनुत्पन्नमिदं जगत्" "इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्" इत्यादिवचनैरिति भावः । पक्षे मिथ्येति परप्रतारणाय वास्तवरूपवि. पर्यासेन यथा-हीरकादिकं काचत्वेन प्रतिपादयन्ति महत्यारभट्या समर्थयन्ति । किं तर्हि ते परमार्थसन्न किमप्यङ्गीकुर्वन्तीत्याकालायामाह-सर्वप्रमाणेति । स. वाणि च तानि प्रमाणानि प्रत्यक्षागमादीनि तत्र प्रत्यक्षाणि चक्षुरादीन्द्रियाणि आ• गमादीनि तर्कमीमांसादीनि च तेषां सरणी पद्धति अतिक्रम्य वर्तमानं "न
१ मतं'. २ 'श्रवन्ति परमं'.
For Private And Personal Use Only