SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४२] पदार्थचन्द्रिकाटीकासहिता । २६७ स्वाध्यायाध्ययनं प्रतिग्रहकृते वादाय शास्त्रश्रमो दुप्येत्स्वोदरपूर्तये यदि हरेः कैर्यमाचर्यते ॥ ५०५ ॥ अन्यच्च भूयोदोषैरपि परिवृतः पूरुषः सात्विकानाम् प्रायः पूज्यो भवति भगवद्भक्तिमासाद्य हृद्याम् ॥ आक्रान्ताऽपि प्रबलभुजगैः कण्टकैरप्यनल्यैः किं नादृत्या सुरभिकुसुमा केतकी भाग्ये भाजाम् ॥ ५०६ ॥ अथ पाण्ड्य-चोलदेशनिवासिस्मार्त- शैवादिवर्णनम् ४२. इत्यन्यतोऽभिकान् समन्तादवलोक्य साञ्जलिबन्धम् - क्रियासार्थितवेदेभ्यो ग्राहयद्भ्यः श्रुतीर्बहून् ॥ पाण्ड्य - चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः ॥ ५०७ ॥ तयै अभिहोत्राद्याश्रमधर्माय वा यागानां ज्योतिष्टोमादीनां आहृतिरनुष्ठानं ख्यातये कीर्त्यर्थे न तु खर्गाद्यर्थ; पाकस्य कृतिः निष्पादनं स्वार्थे स्वभक्षणार्थं न तु पश्चयज्ञाद्यर्थ; अर्थार्जनं द्रव्यसंपादनं कुपात्रविषये कुत्सितवेश्यादिजनविषये त्यागार्थं समर्पणार्थमेव, न तु धर्मार्थ; स्वाध्यायस्य वेदस्य अध्ययनमभ्यासः प्रतिग्रहकृते परदत्तवव्यादिग्रहणार्थे, न तु स्वीयानुष्ठानोपयोगि कर्मज्ञानाद्यर्थं शास्त्रेषु व्याकरण तर्क-मीमांसादिषु श्रमोऽभ्यासः वादाय, न तु तत्त्वावबोधाय; तथा हरेः कैङ्कर्य दास्यं स्वोदरपूये आचर्यते तदा दुष्येदिति हेयोपादेयविद उदाहरन्तीति पूर्वेण संबन्धः ॥ ५०५ ॥ भूय इति । पुरुषो मनुष्यः भूयोदोषैर्बहुभिर्दोषैः संध्यादिकर्मत्यागादिभिः परिवृतः युक्तोऽपि सात्त्विकानां सत्त्वप्रधानमनसां शुद्धमानसानामित्यर्थः । जनानां हृद्यां मनोज्ञां भगवति विष्णौ भक्ति आसाय संपाद्य प्रायः बहुधा पूज्यो मान्यो भवति । एतदेव सदृष्टान्तमाह- केतकी प्रबलाः दुर्भरगरलसंपन्नत्वेन प्रकृष्टशक्तिमन्तश्च ते भुजगाः सर्पाश्च तैः अनल्पैर्बहुभिः कण्टकैश्चापि आक्रान्ता व्याप्तापि सुरभीणि सुगन्धीनि कुसुमानि पुष्पाणि यस्याः सा तथाभूता, हेतुगर्भमिदं विशेषणम् । सुरभिकुसुम संपन्नत्वादित्यर्थः । भाग्यभाजां आहत्या आदराही न भवति किम् ? अपि त्ववश्यमादर्तव्यैव भवतीत्यर्थः ॥ ५०६ ॥ क्रियेति । क्रियाभिः यागाद्यनुष्ठानैः सार्थिताः सफलीकृताः वेदाः यैस्तेभ्यः, बहून् शिष्यवर्गानिति शेषः । श्रूतीर्वेदान् ग्राहयद्भयः पाठयद्भयः पाण्ड्यश्च चोलश्च देशभेदौ तयोः निवासो वसतिरस्त्येषां तेभ्यः पण्डितेभ्यो वो युष्माकं नमः अस्तु ॥ ५०७ ॥ १ 'दुष्येचोदर'. २ 'भाग्यभाजा', For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy