________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता ।
पुनः सरोषम् —
हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै बन्ति ॥ २९३ ॥
यतः
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-
२६९
यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते || अज्ञं परं ब्रह्म तदेव भुते संसारतापानिति संगिरन्ते ॥ ५०९ ||
तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्याचचक्षिरे ।" " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।" इत्यादिबहुश्रुतेः सर्वप्रत्यक्षागमप्रमाणातीतमित्यर्थः । पक्षे सर्वप्रमाणबहिर्भूतत्वात्स्वकपोलकल्पित मित्यर्थः । अत एव विशिष्यते इतरव्यावृत्तत्वेन ज्ञायते यैस्ते विशेषाः प्रकाराः । धर्मा इति यावत् । ते निर्गता यस्मात् तन्निर्विशेषम् । पक्षे आदरातिशयप्रयोजकानितरसाधारणप्रशस्तगुणरहितं; परं "इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धियों बुद्धेः परतस्तु सः ।" इत्यादिभगवद्वाक्यप्रामाण्यासर्वेभ्यः श्रेष्ठतमं पक्षे कुत्रापि केनाप्यदृष्टपूर्वस्वभावकं सकललोकविलक्षणमिति यावत् । ब्रह्म आश्रयन्ति स्वीकुर्वन्ति । बतेत्यानन्दे खेदे च ॥ ५०८ ॥
ननु परं ब्रह्माश्रयन्ति चेत् का हानिः सम्यगेव तदित्याशङ्कयाह -- हन्तेति । ब्रह्मबन्धवः दुष्टब्राह्मणाः परस्मै इन्द्रियसंघातात् परत्र वर्तमानाय ब्रह्मणे परमात्मने दुन्ति ॥ २१३ ॥
द्रोहप्रकारमेवोपपादयति-यदेवेति । आगमान्ते वेदान्ते यदेव ब्रह्म सर्वे जाग्रत्-खप्न-सुषुप्त्यात्मकमवस्थात्रयं जानाति अन्तर्यामित्वेन प्रत्यक्षयतीति तथाभूतं सर्गस्थित्यादिकं वा जानातीति । तथा च श्रुतिः - " यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।” इति । अत एव अपास्ताः निर्गताः दोषाः जन्मादिविकारा यस्मात् तत् " न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।" इति श्रुतिरत्रार्थे प्रमाणम् । भवार्तिहारि संसारदुःखनिवर्तकं " ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्म - मृत्युप्रहाणिः ।” इति श्रुतिरपि । इति श्रुतं आकर्णितं, तदेव परं ब्रह्म अज्ञं जीववत् किंचिज्ज्ञ, अल्पार्थे नञ् । संसारतापान् जन्म-जरा-मरणादीन् भुक्ते इति संगिरन्ते । “ज्ञाज्ञौ द्वावजावनीशावजा येका भोक्त-भोगार्थंयुक्ता । अनन्तश्वात्मा विश्वरूपो ह्यकर्ता” । “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।" इत्यादिबहुलश्रुतिभ्यः प्रतिपादयन्ति । जीव-ब्रह्मणोरैक्यप्रतिपादकानामेतत्कथनं व्याहन्यत इति भावः ॥ ५०९ ॥
१ ‘भोक्त’.
For Private And Personal Use Only