________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३९]
पदार्थचन्द्रिकाटीकासहिता ।
नृत्यन्तीरिह नित्यमेव ललितास्तीक्ष्णैरतन्वाशुगै
लावण्यं दधतीः कदापि न चलन्त्यालोक्य वीचीरमूः ॥४७८॥ क्षणमभिध्यायन्नञ्जलिं बवाअस्तोकप्तिरपि वारिधिरेष यस्मात्
त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुम् ॥
गोपायते दुरितवन्ति जगन्ति तस्मै - कोषाय ते रघुपते महते नमोऽस्तु ॥ ४७९ ॥ कु०-साक्षेपम्
काकुत्स्थकोपेचकितः कमिता नदीना___ मासीद्यदानघुगुरुप्लवनाहतोयः ॥ शक्यस्तदैष तरितुं हरिभिः पदाभ्याम्
किं वा फलं कथय सेतुकृतिश्रमस्य ? ॥ ४८० ॥ धर्मरूपेण रामेण रचितः सेतुर्यैस्ते इति च, सोढौ मर्षितौ उग्रौ वर्षे वृष्टिः आतपः सूर्यप्रकाशश्च तौ द्वौ यैस्ते अत एव शुद्धाः पवित्राः सदा सर्वदा सिन्धुजले समुद्रोदके स्थित्वा क्षितिभृतः राजानः पर्वताश्च घोरं भयंकरं तपः कुर्वते कुर्वन्ति । अतः इमे पर्वताः राजानश्च इह लोके समुद्रे च लावण्यं सौन्दर्य लवणस्य भावः लावण्यं क्षाररसमित्यर्थः । दधतीः धारयन्तीः तीक्ष्णैस्तिग्मैः अतनुभिः बहुभिः आशुगैः वायुभिः अतनोर्मदनस्य च आशुगैर्बाणैश्च "आशुगौ वायु-विशिखौ” इत्यमरः । लुलिताः क्षुभिताः पीडिताश्च अत एव नित्यमनवरतमेव नृत्यन्तीः वर्द्धिताः नृत्यमाचरन्तीश्च अमूः वीची: लहरी: आलोक्यावलोक्य कदापि न चलन्ति न मुह्यन्ति ने भ्रमन्ति च ॥ ४७८ ॥
अस्तोकेति । एष वारिधिः समुद्रः अस्तोका बहुला दृप्तिर्गर्यो यस्य तथाभूतः धन्नपि, यस्मात् कोपात् त्रस्तो भीतः सन् विपुला बहुला ये उपलाः पाषाणास्तैः सान्द्र निबिडं सेतुं बिभर्ति धारयति, तस्मै दुरितवन्ति पापयुक्तानि जगन्ति गोपायते रक्षते, 'गुपू रक्षणे' इत्यस्मात् "गुपू-धूप-" इत्यादिना आयप्रत्यये शतृप्रत्ययः । हे रघुपते भगवन् रामचन्द्र ! ते तव महते कोपाय क्रोधाय नमः अस्तु ॥ ४७९ ॥
'वारिधिस्त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुं' इत्यत्राक्षिपति-काकुत्स्थेति । नदीनां कमिता पतिः समुद्रः ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थः रामचन्द्रः तस्य कोपात् चकितो भीतः यदा अनघानां निर्मलानां गुरूणां महतां, सोढुमशक्यानामित्यर्थः । अर्थात् पाषाणानां प्लवनाय तरणाय अहं योग्यं तोयमुदकं यस्य तथाभूतः आसीत् , तदा तर्हि एषः हरिभिः वानरैः पदाभ्यां
१ चपला'. २ रोष'. ३ 'गुरुनग', 'ननु गुरु'.
For Private And Personal Use Only