________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८ विश्वगुणादर्शचम्पू:- [ सेतु
वि०-तत् कथितमेव मया । भवता तु न सम्यगवधारितम् । शृणु तर्हि पुनः सावधानम् ॥ २०४ ॥
अम्भोराशिं वानरा लङ्घयन्त्वित्येतद्वयाजीकृत्य राजीवनेत्रः ।।
अहोराशेर्लङ्घनाथै नराणामम्भोराशौ सेतुमुच्चैरबन्नात् ॥ ४८१ ॥ पुनर्निरूप्य
न सागरोऽसौ नभ एव फेनव्रजा न चामी विपुलोडुवर्गाः ।।
न सेतुरेषोऽपि निशाचराणां नृपातकानामपि धूमकेतुः ॥४८२॥ पश्यात्र जलचरभ्रमचमत्कारम् ॥ २०५॥
गजेन्द्रबुद्ध्या नलसेतुशैलान्याहा असन्ते जलधौ वसन्तः ॥
तदासजायाससमुत्थदंष्ट्राव्यथाः प्रधावन्ति यथागतं ते ॥ ४८३॥ वरणाभ्यां तरितुं लङ्घयितुमपि शक्यः स्यात् । तस्मात् सेतुकृतिश्रमस्य सेतुरचनाप्रयत्नस्य किं वा फलमुपयोगः ? कथय ।। ४८०॥
तदिति । तत् सेतुकृतिश्रमफलं मया कथितं 'दातुं शर्म च राघवेण रचितं' इत्यादिनोक्तमेव । भवता तु पुरोभागितया न सम्यक् अवधारितं ज्ञातम् । तर्हि पुनः कथयामीति शेषः । सावधानं केवलपुरोभागित्वं त्यक्त्वा तत्त्वजिज्ञासया मनःपूर्वकं यथा तथा शृणु ॥ २०४ ॥
अम्भोराशिमिति । वानराः अम्भोराशिं समुद्रं लङ्घयन्तु तरन्तु इत्येतत् व्याजीकृत्य निमित्तीकृत्य, राजीवनेत्रः कमलनयनः श्रीरामचन्द्रः नराणां अंहसां पापानां राशेः समुद्रस्य लङ्घनार्थ उल्लङ्घनार्थ अम्भोराशौ समुद्रे उच्चैर्महान्तं सेतुं अबध्नात् बबन्ध ।। ४८१॥
नेति । असौ दृश्यमानः सागरः समुद्रो न, किंतु नभ आकाश एव । अमी सा. गरतरङ्गेषु विलसन्तः फेनवजाः फेनसमुदायाः न, किंतु विपुलानां बहूनां उडूनां नक्षत्राणां वर्गाः समुदाया एव । तथा एषः सागरे श्रीरामनिबद्धः सेतुर्न, अपि तु निशाचराणां राक्षसानां नृणां मनुष्याणां संबन्धिनां पातकानामपि च धूमकेतुः विनाशसूचकग्रहविशेषः । अत्र सागरादीनां प्रकृतस्वरूपं निषिध्य नभआदीनामप्रकृतानां साधनादपद्भुतिरलंकारः । तदुक्तम्-"प्रकृतं यनिषिध्यान्यत् साध्यते सा त्वपह्नुतिः। इति ॥ ४८२ ॥
पश्येति । अत्र समुद्रे जलचराणां मत्स्यादीनां भ्रमस्य मिथ्याज्ञानस्य चमस्कारं आश्चर्य पश्य ॥ २०५॥
गजेन्द्रति । जलधौ समुद्रे वसन्तो वासं कुर्वन्तः ग्राहाः नकाः, गजेन्द्रा महा. हस्तिन इति या बुद्धिस्तया नलस्य नलनिर्मितस्य सेतोः संबन्धिनो ये शैलाः पाषा:
१ 'सावधानः'. २ 'उद्गां राशौ', 'पाथोराशौ'.
For Private And Personal Use Only