________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २६]
पदार्थचन्द्रिकाटीकासहिता ।
१८९
वि०-सखे मैवं संभाषिष्ठाः, यत एकरूपदैवतमिदं नगरमिति समर्थ्यते । शृणु तावत् ॥ १४२ ॥
फणिपतिसरस्फुरन्तीभनायकधरोत्तमाङ्गशोभितनुः ।।
भवहरिसंज्ञा काञ्योः पूर्वापरयोर्हि देवता जयति ॥ ३४१ ॥ अन्यच्चास्य नगरस्य भूषणमेव न तु दूषणम् ॥ १४३ ॥ इत्यन्यत्र दृष्टिमादाय सानन्दम्अहो खलु ममाद्य पचेलिमं भागधेयम् ॥ १४४ ॥ यतः... सुरयौवतोपगीतः प्रातः पद्माननो मुनिध्यातः ॥
व्यासकृतौ यः ख्यातः पाण्डवदूतः स दृक्पथं नीतः ॥३४२॥ संबन्धं, गदस्य रोगस्य अन्वयं स्पर्श च त्यक्तुं हातुं काञ्चयां नगर्या वसन्ति, ते जनाः दन्तावलाद्रीश्वरं हस्तिशैलाधिपतिं वरदराजमित्यर्थः । "दन्ती दन्तावलो हस्ती" इत्यमरः । आश्रिताः सन्तः, देहक्षये देहावसाने जाते सति तौ दरानुषङ्गगदान्वयौं भगवत्सारूप्यात् पाञ्चजन्याभिधशङ्खस्य कौमोदकीत्याख्यगदायाश्च संबन्धमित्यर्थः । नियतं नियमेन निश्चयेनेत्यर्थः । भजन्ते सेवन्ते ॥ ३४० ॥
अथ समाधत्ते-सख इति । हे सखे, मैवं संभाषिष्टाः पूर्वोक्तदोषयुक्तभाषणं मा कुरु। यतो यस्मात्कारणात् एकरूपे अभिनखरूपे दैवते वरदराज-एकानेश्वररूपे यस्मिन् तथाभूतमिदं काञ्चीसंज्ञकं नगरं इत्येवं समर्थ्यते साध्यते। मयेति शेषः ॥ १४२ ॥
तमेव प्रकारं दर्शयति-फणिपतीति । फणिपतिसरसि तन्निकटवर्तिनि अनन्तसरोवरे स्फुरन्ती प्रकाशमाना अर्थाद्वरदराजरूपा, फणिपतीनां साधिपानां सरैः हारैः स्फुरन्तीति च एकामेश्वरसंज्ञकशिवरूपेत्यर्थः । इभनायकधरस्य हस्तिशैलस्य उत्तमाङ्गे शिरसि शिखरे इत्यर्थः । भानां नक्षत्राणां नायकश्चन्द्रः तस्य धरेण धारकेणोत्तमाङ्गेन शिरसा च शोभिनी तनुः शरीरं यस्याः सा, भवः हरिश्च इति संज्ञे नामनी, भवं संसारं हरन्ति तथाभूताश्च संज्ञाः वरदराज-राम-कृष्णादिनामानि च यस्याः सा देवता पूर्वा चापरा च तयोः विष्णु-शिवसंज्ञयोरित्यर्थः । काभ्योः जयति हि जयत्येव । एवं चेदं नगरमेकरूपदैवतमेवेति भावः ॥ ३४१॥ __ अथ तत्रस्थपार्थसारथिभगवद्वर्णनं सूचयन्नाह–अन्यच्चेति । अस्य नगरस्य काञ्चीनगरस्य भूषणमेव ॥ १४३ ॥ __ अहो इति । आश्चर्ये । ममाद्य पचेलिमं फलाभिमुखं “तव्यत्तव्यानीयरः" इति सूत्रस्थेन “केलिमर उपसंख्यानम्" इति वार्तिकेन केलिमप्रत्ययः । भाग्यम् दैवम् ॥ १४४ ॥
सुरेति । सुरयौवतेन देवस्त्रीसमूहेन । समूहार्थेऽण् । “गणिकादेतु १ 'हर'. २ 'स्फुटतरपद्मासनामुनि'.
For Private And Personal Use Only