________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
विश्वगुणादर्शचम्पू:-
[श्रीमदेकानेश्वर
यद्वा
काञ्चीनाम्नि पुरे सुरेन्द्रमहिते प्राक्पश्चिमोद्देशयो. श्चित्रं दैवतयोश्चिरं निवसतो रीतिविरुद्धा मिथः ।। एको हि द्विजराजमप्यधरयत्यन्यस्तमुत्तंसय
त्यनौ हन्त बिभर्ति कश्चिदपरः स्वे मूर्धनि वधुनीम्॥३३८॥ विरुद्धदेवाक्रान्तकाञ्चीनगरसमागमाद्वारणधराधरोऽप्येवम् ॥ १४१॥ तथाहि
भेत्ता गोप्ता च हरिर्महासवजुषो हिरण्यगर्भस्य ॥
भयकृदिभस्याभयकृन्मूलाञ्चलयोश्चकास्ति हस्तिगिरेः ।। ३३९ ॥ अयं चापरो दोषःदरानुषङ्गं च गदान्वयं च त्यक्तुं जना ये निवसन्ति काञ्च्याम् ।। दन्तावलाद्रीश्वरमाश्रितास्ते देहक्षये तो नियतं भजन्ते ॥ ३४० ॥ पक्षान्तरेणापि तदेवोपपादयति-काञ्चीनानीति । सुरेन्द्रेणेन्द्रेण महिते पूजिते काञ्चीनाम्नि पुरे नगरे, प्राक्पश्चिमोद्देशयोः पूर्वपश्चिमदिशोरित्यर्थः । चिरं बहुकालं निवसतोः वासं कुर्वतोः दैवतयोः वरदराजैकानेश्वरयोः मिथः परस्परं विरुद्धा रीतिः आचारः। हि यस्मात् एकः वरदराजः द्विजराजं पक्षिराजं ब्राह्मणराजं चापि, अधरयति वाहनत्वेनाधरीकुरुते तिरस्करोति च । अन्यः एकामेश्वरस्तु तं द्विजराजं चन्द्रं उत्तंसयति पूजयति शिरोभूषणत्वेन खीकरोति च । हन्तेत्याश्चर्ये । कश्चिदेकः स्वधुनीं गङ्गां अङ्गौ चरणे बिभर्ति धारयति, अपरः खे मूर्धनि मस्तके च खर्धनी बिभर्ति । एतद्वा चित्रमाश्चर्य पश्यति पूर्वेणान्वयः ॥ ३३८॥ .. अपि च विरुद्धति । विरुद्धौ यौ देवौ वरदराजैकानेश्वरौ ताभ्यामाकान्तमधिष्ठितं यत्काञ्चीनगरं तस्य समागमात् संबन्धाद्धेतोः वारणधराधरः हस्तिशलोपि एवं विरुद्धाचार एव ।। १४१ ॥
भेत्तेति । अयं हरिः श्रीवरदराजरूपः महांश्वासौ आसवः मद्यं महांश्चासौ सवो यज्ञश्च तं जुषत इति तज्जुषः नित्यं मद्यपायिनोऽश्वमेधादिसदृशमहायज्ञकर्तुश्वेत्यर्थः । हिरण्यं चासौ गर्भश्च तस्य हिरण्यकशिपोरित्यर्थः । हिरण्यगर्भस्य ब्रह्मणश्व भेत्ता विनाशकर्ता गोप्ता रक्षिता च । तथा इभस्य हिरण्यकशिपुरूपस्य गजेन्द्रस्य च भयकृत् भीत्युत्पादकः, अभयकृञ्च भयविनाशयिता च हस्तिगिरेः मुलाञ्चलयोः मूले शिखरे चेत्यर्थः । चकास्ति प्रकाशते ॥ ३३९ ॥
अपरमपि दोषं कथयति-दरानुषङ्गमिति । ये जनाः दरस्य भयस्य अनुषङ्गं १ 'सुरेश'. २ 'यद्धि'. ३ 'भूधरो'. ४ 'छेत्ता गोप्ता च हरो हरिः सब, भत्तास्ति'. ५ 'दारानुषङ्ग'.
For Private And Personal Use Only