________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। १८७
कृशानु:-अन्योन्यविरुद्धस्वभावाभ्यां देवाभ्यामाकान्तामेनां नगरौं किं विनौषि? ॥ १४० ॥
देवौ द्वावधिकाञ्चि पश्य लसतः प्राची-प्रेतीच्याशयो___ स्तत्रैकः कुरुते विनायकमधश्चित्रं पुरश्चापरः ॥ एको नित्यमनष्टमूर्तिरितरः ख्यातोऽष्टमूर्तिर्जग
त्येको वारितवान् गजातिमचिराईत्ते गजाति परः ॥३३७॥ त्वं आसादयति संपादयति । यतो यस्मात् कारणात् एतस्मिन् काञ्चीसंज्ञके पुरे नगरे तिष्ठतीति तत्स्थः स चासावणुश्च एतत्पुरस्थाणुः अणुमात्रः, एतस्मिन् पुरे स्थाणुः शिवः श्रीमदेकानेश्वरसंज्ञकश्च, गिरीशः पर्वताधिपः कैलासाधिपश्च इत्येवं. प्रकारेण गीयते स्तूयते ॥ ३३६ ॥
काच्यामपि दोषोद्धाटनार्थमुपकामति-अन्योन्येति । अन्योन्यविरुद्धः परस्परविरोधी स्वभावः ययोस्ताभ्यां देवाभ्यां विष्णु-शिवाभ्यामाकान्तामधिष्ठितामेनां काञ्ची नगरी किं कथं विनौषि ? 'णु स्तुतौ' इत्यादादिकस्य रूपम् । “उतोवृद्धिः-" इति वृद्धिः ॥ १४॥
अन्योन्यविरुद्धखभावत्वमेवोपपादयति-देवाविति । द्वौ देवौ वरदराजैकानेश्वरसंज्ञौ विष्णु-शंकरौ अधिकाञ्चि काश्च्यां नगर्यो, विभक्त्यर्थेऽव्ययीभावः । “अव्ययीभावश्च" इति नपुंसकत्वम् । प्राची पूर्वा च प्रतीची पश्चिमा च ते आशे दिशौ तयोः, प्राच्या प्रतीच्यां च दिशीत्यर्थः । लसतः शोभते । तत्र तयोर्द्वयोर्मध्ये एकः वरदराजः वीनां पक्षिणां नायको गरुडस्तं अधः अधोभागे कुरुते करोति, वाहनत्वे. नेलर्थः । अपरःश्रीमदेकानेश्वरस्तु विनायकं गणपतिं पुरः अग्रभागे कुरुते धत्ते, पुत्रत्वात् । एकः वरदराजः नित्यं अनष्टमूर्तिः अष्टमूर्तिन भवति । वस्तुतस्तु नष्टा नाशं प्राप्ता मूर्तिः खरूपं यस्य सः तथा न भवतीति, अविनाशिस्वरूप इत्यर्थः । इतरः एकामेश्वरश्च अष्टौ भूरादिपञ्चमहाभूतानि चन्द्र-सूर्य-यज्वानश्चेति त्रयः एवं मूर्तयः यस्य तथाभूतः जगति ख्यातः प्रसिद्धः । तथा एकः गजस्य सरःस्थगजेन्द्रस्य आति पीडां नक्रकृतां अचिरात् शीघ्रं वारितवान् । परः अन्यस्तु गजस्य गजासुरस्याति पीडां धत्ते करोति । अत्र भावदर्पणकृता 'गजस्य आति चर्म धत्ते धारयति' इति यदुकं तदविचाररमणीयमेव । यत आतिशब्दस्य चर्मवाचकत्वं क्वापि कोशादौ नोपलभ्यते। एतच्चित्रमाश्चर्य पश्य । कचित् 'रत्या' इति पाठान्तरं दृश्यते । तत्पक्षे अगजायाः हिमालयोत्पन्नायाः पार्वत्याः आति काममयीं पीडां रत्या सुरतेन वारितवान् इत्यर्थः । एतदेव पाठान्तरमादृत्य भावदर्पणकृता व्याख्यातम् । परं चैतस्मात् 'धत्ते' इत्येव पाठान्तरं युक्तमिति भाति 'वारितवान्' इत्येतदपेक्षया तस्यैव खारस्यादित्याकलयन्तु सुधियः ॥ ३३७ ॥
१ विरुद्धधर्मस्वभावाभ्यां'. २ 'विस्तौषि'. ३ 'प्राचीप्रतीच्यन्तयोः'. ४ 'रत्या'.
For Private And Personal Use Only