________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वरकृ०-अनुचितकर्मासौ किमर्थमनुवर्ण्यते ॥ १४५ ॥ सकलजगतामीशानोऽपि खयं विगतश्रिया
मिदमनुचितं दूतो जातो यदेष पृथाभुवाम् ॥किमिह महतां हृद्या खद्योतपोतनिकेतने
चिरमधिपतेर्भासां दासानुदासतया स्थितिः ॥ ३४३ ।। वि०-पुरोभागिन् , भगवद्गुणेषु दोषमनीषया भवानेव दुष्यति ॥ श्रूयतामेतत् ॥ १४६ ॥कवित्वस्य गाम्भीर्यमौदार्यमृद्धेः प्रभुत्वस्य शौर्य गुरुत्वस्य विद्याम् ॥
महावंश्यतायाःसदाचारपूर्ति महत्त्वस्य सौलभ्यमाकल्पमाहुः ॥३४४॥ गाणिक्यं गार्भिणं यौवतं गणे" इत्यमरः। सुरयुवतीनां समूह इति विग्रहः । उपगीतः प्रशंसितः, प्रातः प्रभातकाले मुनिभिः सनकादिभिः ध्यातः अनन्यमनसा चिन्तितः, यश्च व्यासस्य कृतौ महाभारते ख्यातः नायकत्वेन प्रसिद्धः सः पद्माननः कमलमुखः पाण्डवानां दूतः भगवान् श्रीकृष्णः, दृक्पथं दृष्टिपथं नीतः प्रापितः । मया दृष्टः इत्यर्थः ॥ ३४२॥
तं दूषयति-अनुचितेति । अनुचितानि अयोग्यानि कर्माणि यस्य सः असौ पाण्डवदूतः किमर्थमनुवर्ण्यते स्तूयते । त्वयेति शेषः ॥ १४५ ॥
अनुचितकर्मत्वमेव प्रतिपादयति-सकलजगतामिति । यत् यस्मात् कारणात् एष श्रीकृष्णः स्वयं सकलजगतां त्रयाणामपि लोकानामित्यर्थः । ईशानोऽधि. पतिरपि सन् , विगता कपटद्यूते विनष्टा श्रीः राज्याद्यैश्वर्य येषां तेषां पृथाभुवां कुन्तीपुत्राणां पाण्डवानां दूतः जातः इदमेव अनुचितमयोग्यम् । अत्र दृष्टान्तमाहभासां कान्तीनामधिपतेः सूर्यस्य खद्योतपोतानां ज्योतिरिङ्गणशिशूनां निकेतने गृहे। "यानपात्रे शिशौ पोतः” इत्यमरः । दासानां सेवकानां अनुदासः तस्य भावो दासानुदासता तया तद्रूपेणेत्यर्थः । स्थितिः सापि चिरं बहुकालपर्यन्तं, इह लोके महतां किं हृद्या मनोहरा भवति ? अपि तु नैवेत्यर्थः ॥ ३४३ ॥
पुरोभागिन्निति । हे पुरोभागिन् दोषैकदर्शिन् , भगवतो गुणेषु दोषमनीषया दोषबुद्ध्या भवानेव दुष्यति ॥ १४६ ॥
कवित्वस्येति । कवित्वस्य काव्यरचनस्य गाम्भीर्य अर्थबाहुल्यालंकारादिसं.. पन्नत्वेन गभीरत्वं आकल्पं भूषणमाहुः । ऋद्धेः संपत्तेः औदार्य दातृत्वं आकल्पं प्रभुत्वस्य आधिपत्यस्य शौर्य शूरत्वं, गुरुत्वस्य आचार्यत्वस्य विद्या, महावंश्यतायाः सद्वंशोत्पन्नत्वस्य सदाचारेण सत्कर्माचरणेन पूर्ति परिपूर्णतां, महत्त्वस्य सर्वजनश्रेष्ठत्वस्य सौलभ्यं सुलभत्वं सर्वेषामपि जनानां सहजदर्शनत्वमिति यावत् । सर्वत्र आकल्पमित्यनुसंधेयम् ॥ ३४४ ॥
For Private And Personal Use Only