________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । इत्यपरत्र विमानमानयन् सानन्दम् । अत्र हिविकचरुचिरपुण्डरीकषण्डद्युतिमदमोचनलोचनप्रभावः ॥
जयति विजयराघवः स देवः शुचितरगृध्रसरोवरोपकण्ठे ३४५ किंच. सम्पातिसोदरसरस्तटसंप्ररूढो
भात्यद्भुतो विजयराघवपारिजातः ॥ शाखाततेरुपरि सद्भिरुदीक्ष्यते यो __ यस्याध एव सकलः सुमनःप्रपञ्चः ॥ ३४६ ॥ पुनः सभक्तिप्रकर्ष जनानुद्दिश्यभो भो भुक्तिमुक्तिप्रेप्सवः, इदं शृण्वन्तु भवन्तः ॥ १४७ ॥
अथ विजयराघववर्णनमुपसूचयन्नाह-विकचेति । विकचं विकासितं अत एव रुचिरं सुन्दरं यत्पुण्डरीकषण्डं श्वेतकमलवृन्दं "पुण्डरीकं सिताम्भोजम्" इत्यमरः । तस्य द्युतिमदं कान्तिगर्व मोचयतीति तथाभूतः लोचनयोः प्रभावो यस्य सः, सः त्रिलोकी विश्रुतः विजयराघवो देवः शुचितरस्य अतीव पवित्रस्य गृध्रसरोवरस्य एतदाख्यतीर्थस्य उपकण्ठे अन्तिके "उपकण्ठान्तिकाभ्यर्णाभ्यग्ना अप्यभि. तोऽव्ययम्" इत्यमरः । जयति सर्वोत्कर्षण वर्तते ॥ ३४५ ॥
सम्पातीति । सम्पातेः सोदरस्य बन्धोर्जटायुषः संबन्धि सरः गृध्रतीर्थमित्यर्थः । तस्य तटे तीरे संप्ररूढः उत्पन्नः अद्भुतः आश्चर्योत्पादकः विजयराघवः एतत्संज्ञको भगवानेव पारिजातः वृक्षः भाति शोभते । अद्भुतत्वमेव प्रपञ्चयति-लोके हि वृक्षस्योपरितनभागे शाखाः संभवन्ति । यः अयं विजयराघवस्तु सद्भिः सज्जनैः शाखानां वृक्षस्कन्धानां वेदशाखानां आश्वलायनापस्तम्ब-बौधायनादीनां च ततः उपरि ऊर्ध्वभागे उपनिषत्सु च उदीक्ष्यते अवलोक्यते । तथा लोके वृक्षशाखाले पुष्पाण्युद्भवन्ति । यस्यास्य विजयराघवस्य तु, अध एवाधोभागे एव सकल: संपूर्णः सुमनसां पुष्पाणां प्रपञ्चः विस्तारः उदीक्ष्यते अवलोक्यते । एतेन “ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।" इति भगवद्गीतोक्तार्थः स्मारितः । तत्र अश्वत्थरूपकमत्र च पारिजातरूपकमियानेव भेदः ॥ ३४६ ॥
भो भो इति । भो भो इति संबोधने । भुक्तिश्च मुक्तिश्च ते प्रकर्षेण ईप्सन्ति इच्छन्ति ते तथाभूता हे जनाः, इदं वक्ष्यमाणं शृण्वन्तु भवन्तः ॥ १४७ ॥
१ 'एषः'. २ 'भक्ति'.
For Private And Personal Use Only