________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२ विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर- .
विश्रुताश्रितवात्सल्यं वीरं विजयराघवम् ॥
नमस्कुरुत यो गृधं समस्कुरुत दाहतः ॥ ३४७ ॥ अत्र च गृध्रपतिक्षेत्रे विश्वप्रसिद्धा काचिद्वैचित्री ॥ १४८ ॥ तनयार्थनया समागताभिस्तरुणीभिः परिभर्जिताश्च मुद्गाः ॥ दृढमङ्कुरमत्र देवशक्त्या सममासां पुलकाङ्कुरैः फलन्ति ॥ ३४८ ॥ कृ०-निजरूपमहिमाननुरूपस्थितिरसौ विजयराघवःकिमीड्यते ? १४९ शुकस्तुतो हंसमयूरवाहमुखप्रगीतो गरुडासनोऽसौ ॥ क्षीराब्धितीरावसथोऽपि वासं करोत्यहो गृध्रसरोऽन्तिकेऽस्मिन् ॥३४९॥
किं तदित्यपेक्षायामाह-विश्रुतेति । यो विजयराघवः गृ– जटायुषं दाहतः दहनेन समस्कुरुत संचस्कार । तस्य दाहादिसंस्कारांश्चक्रे इत्यर्थः । "संपरिभ्यां करोतौ भूषणे" इति सुडागमः स च "अडभ्यासव्यवायेऽपि" इत्युक्तत्वात् तथ्यवधानेऽपि । अत एव विश्रुतं प्रसिद्धं आश्रितेषु भक्तेषु वात्सल्यं प्रेम यस्य सः तं वीरं शौर्यादिगुणयुक्तं विजयराघवं नमस्कुरुत । यूयं सर्वे इति शेषः ॥ ३४७ ॥
अत्र चेति । अत्र गृध्रपतिक्षेत्रे जटायुषस्तीर्थे इत्यर्थः । विश्वप्रसिद्धा काचित् चित्ताहादकीं वैचित्री आश्चर्यम् ॥ १४८ ॥
वैचित्रीमेवाह-तनयार्थनयेति । अत्र विजयराघवक्षेत्रे तनयानां पुत्राणां अर्थनया प्रार्थनया समागताभिः प्राप्ताभिः तरुणीभिः वन्ध्यस्त्रीभिः परिभर्जिताः भक्षणार्थ पाचिताः मुद्गाः देवस्य विजयराघवस्य शक्त्या सामर्थ्येन आसां स्त्रीणां पुलकाङ्कुरैः रोमाञ्चोद्गमैः समं सह, दृढमत्यर्थं यथा तथा अङ्करं फलन्ति उत्पादयन्ति । भर्जितधान्यस्य कुत्राप्यकुरासंभवात्तदेवात्राश्चर्यमिति भावः ॥ ३४८ ॥
निजेति । निजस्य आत्मनः रूपस्य यो महिमा माहात्म्यं तस्य अननुरूपा अयोग्या स्थितिः रीतिर्यस्य सः असौ विजयराघवः किं कुतो हेतोः ईज्यते स्तूयते ? । त्वयेति शेषः ॥ १४९ ॥
कथं वाननुरूपस्थितिरित्याकालायामाह-शुकस्तुत इति । यो विजयराघवः शुकेन कीरेण शुकाचार्येण योगिना च स्तुतः, हंसश्च मयूरश्च तौ वाही वाहने ययोस्तौ ब्रह्म-षडाननौ मुखं मुख्यौ येषां तैरिन्द्रादिदेवैः प्रगीतः प्रकर्षेण वर्णितः, पुनश्च गरुडासनः क्षीराब्धितीरे क्षीरसागरतीरे आवसथं स्थानं यस्य तथाभूतोपि सन् , असौ विजयराघवः अस्मिन् गृध्रसरसः गृध्रतीर्थस्य अन्तिके तीरे वासं करोति । अहो अतीवायुक्तमेतदित्यर्थः । श्लेषमूलकविरोधाभासोऽत्रालंकारः । भक्तत्वाद्धेऽपि वात्सल्यप्रतीतेश्चालंकारस्य ध्वनिमात्ररूपत्वम् ॥ ३४९ ॥
१ 'राघवः'. २ 'गृध्रसरस्तीरे'.
For Private And Personal Use Only