________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । खेलत्कोकिललोक-काककुलयोः क्षीरार्णवान्ध्वोरिव व्यक्तं पण्डित-मूर्खयोः समदृशो व्रात्या इहत्या अमी ॥ १९० ॥
अथ वेङ्कटगिरिवर्णनम् १५.
विश्वावसुः-ओमित्यग्रे विमानमुपानयन् सानन्दं साञ्जलिबन्धं चसुरभितमतमालस्तोमपुष्यद्रसाल
प्रकरतिलकसालप्रेष्ठसुठुद्रुजालः ॥ श्रितसमवनशीलः श्रीशलीलानुकूलः
शिथिलितभवमूलः सेव्यतां शेषशैलः ॥ १९१ ॥
विषवृक्षयोः, सर्वत्र द्वन्द्वः । “चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः”। महा. काललतायां च किम्पाकः" इत्यमर-रत्नमालयोः । राजत्कुण्डलिराज-राजिलकयोः सुशोभितसर्पराज-डुण्डुभयोः । डुण्डुभो नाम द्विमुखो निर्विषश्च हीनसर्पः । “कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी" । "अलगर्दो जलव्याल: समौ राजिल-डुण्डुभौ" इत्युभयत्राप्यमरः । राजीव-धत्तूरयोः कमलोन्मत्तपुष्पयोः । “उन्मत्तः कितवो धूर्तो धत्तूरः कनकायः” इत्यमरः । खेलन् मधुरविरावादिलीलां कुर्वन् यः कोकिलानां लोकः समूहः काकानां कुलं च तयोः, क्षीरार्णवान्भ्वोः क्षीरसमुद्र-कूपयोश्चेव । अयं व्यवहितोऽपि इवशब्दः उपरि सर्वत्र योज्यः । इहत्याः कर्णाटदेशीयाः अमी व्रात्याः जनाः विधिवदध्ययनादिसंस्कारहीनाः, "व्रात्यः संस्कारहीनः स्यात्" इत्यमरः । व्यक्तं स्फुटं यथा तथा पण्डित-मूर्खयोः, समं न्यूनाधिकभावरहितं यथा स्यात्तथा पश्यन्तीति ते तथोक्ताः सन्तीति शेषः । तस्मादचिरादेवेतः स्थानादतिकमणं श्रेय इति भावः ॥ १९० ॥
साम्प्रतं वेङ्कटाचलवर्णनार्थ विश्वावसोः कृशानुवचनाङ्गीकारपूर्विकामुक्तिमाह-ओमिति । ओमित्यङ्गीकारे । तद्भाषणमङ्गीकृत्येत्यर्थः । अग्रे इत्यादि स्पष्टम् ।
सुरभीति। सुरभितमाः अतिसुगन्धयुक्ताश्च ते तमालास्तापिच्छवृक्षास्तेषां स्तोमः समूहः । “कालस्कन्धस्तमाल: स्यात्तापिच्छः” इत्यमरः । पुष्यन् प्रतिदिनं वृद्धिं प्राप्नुवन् रसालानां आम्रवृक्षाणां प्रकरः समुदायः। "आम्रचूतो रसालोऽसौ सहकारोतिसौरभः" इत्यमरः । तिलकाः क्षुरकवृक्षाः "तिलकः क्षुरकः श्रीमान्" इत्यमरः । सालाः सर्जसंज्ञका वृक्षाश्च ते प्रेष्ठाः मुख्याः येषु तानि सुष्ठद्रूणां शोभनवृक्षाणां जालानि वृन्दानि यस्मिन् सः । प्रेष्ठ इत्ययं शब्दः प्रियशब्दात् इष्टनि सिध्यति । ततश्च प्रेष्ठ इत्यस्य प्रियतम इत्येवार्थो न्याय्यः, अथाप्यत्र पूर्वापरसंबन्धात् मुख्य इत्यर्थकरणं यु
१ 'प्रष्ठ'.
For Private And Personal Use Only