________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
विश्वगुणादर्शचम्पू:- [कर्णाटदेशकिंच
'पन्थानमनुरुन्धानः पित्रादेर्नैव दुष्यति' ।
इति स्मृतिमधीयानैरेषां दोषो हि दुर्वचः ॥ १८८ ॥ इति विमानं दूरतः समानयन् परितो दृष्ट्वाभाषा-वेषाचारैर्भूषाभिः पूरुषाश्च योषाश्च ॥ वीक्षख प्रतिदेशं विलक्षणा एव हन्त लक्ष्यन्ते ॥ १८९ ॥
कृ०—सखे वीक्षखेति मा वोचः । किंतु सत्वरमैतिक्राम कीशकल्पजनानिमान् जनपदान् ।। ७३ ॥ चन्द्रालोकचयान्धकारभरयोश्चाम्पेय-किम्पाकयो
राजत्कुण्डलिराज-राजिलकयो राजीव-धत्तूरयोः ॥
मनुष्याणां दूषणं भवति । किंतु अशकनवशात् अशक्तिपारतन्त्र्यात् अननुष्ठितिः कालातिक्रमणरूपा, जातु कदाचिदपि एषां माध्वानां दोषाय न भवति ॥१८॥
अथ 'एकादश्यां कालयो.महानात्' इत्यादि दूषणं परिहरति-पन्थानमिति । 'पित्रादेः पितृ-पितामह-प्रपितामहादिगुरुजनस्य पन्थानं आचरणमार्ग. मनुरुन्धानः अनुसरन् , नैव दुष्यति' इत्यर्थिकां स्मृति अधीयानैः, अभ्यसमानैः ज्ञानिभिः, एषां माध्वानां दोषः एकादशीदिने होमाकरणादिरूपः, दुर्वचः वक्तुमशक्यः । हिरवधारणे । त्वादृशैः पुरोभागिभिस्तु सुशक इति भावः ॥ १८८॥
इतीति । इत्युक्त्वा विमानं दूरतः दूरे । सार्वविभक्तिकस्तसिः । समानयन् परितः आसमन्तात् दृष्ट्रा आहेति शेषः।
भाषेति । भाषाश्च वेषाश्च आचाराश्च तैः, भूषाभिः कटक-कुण्डल-हाराद्यलंकारैः करणैः, विलक्षणाः भिन्नभिन्नप्रकाराः पूरुषाः “पुरुषाः पूरुषा नराः" इत्यमरात् दीर्घादिरपि । योषाः स्त्रियश्च "स्त्रीयोषिदबला योषा" इत्यमरः । प्रतिदेशं देशे देशे । हन्तेत्यानन्दे । लक्ष्यन्ते दृश्यन्ते वीक्षख । अवलोकय ॥ १८९॥
एवमुक्ते अतीव निर्वेदयुक्तः कृशानुराह-सखे इति । हे सखे, 'वीक्षख' इति मा वोचः मा वद । 'वच परिभाषणे' इत्यस्माल्लुङि “अस्यति-वक्ति-" इत्यादिना अङि “वच उम्" इति उम् । माड्योगादडागमाभावः । किंतु सत्वरं कीशकल्पाः वानरसदृशाः “ईषदसमाप्तौ कल्पप्-" इत्यादिना कल्पप्प्रत्ययः । जनाः येषु तान् जनपदान् देशान् अतिकाम अतिक्रम्य गच्छ । क्रमेलॊण्मध्यमपुरुषैकवचनम् । “वा भ्राश-भ्लाश-" इत्यादिना श्यन्विकल्पात् पक्षे शप् ॥ ७३ ॥
सत्वरमतिक्रमणे को हेतुरित्याह--चन्द्रालोकेति । चन्द्रालोकचयः चन्द्रप्र. काशसमूहश्च अन्धकारभरः अन्धकारातिशयश्च तयोः, चाम्पेय-किम्पाकयोः केसर
१ 'दृश्यन्ते'. २ 'वयस्य'. ३ 'अतिक्रमावः'.
For Private And Personal Use Only