________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता ।
१०९ दत्तं वित्तमशेषमास्तिकजनैर्दैत्यारिनित्यार्चना
सात्कृत्य स्वयमस्पृशन् वसति चेन्निन्दास्ति किं तावता॥१८५॥ किंचखामिनि विनियुक्तानां खत्वेनानध्यवस्यता यतिना ॥ कत्यं यत्यन्नत्वं प्रत्यवयन्त्यत्र तद्भुर्जश्च कुतः ? ॥ १८६ ॥
एतेन मतान्तरस्था अपि मठाधिपतयो यतयो व्याख्याताः । इदं चावधेयम् ॥ ७२ ॥
यदि कतिपये जात्वालस्याद्यथासमयं द्विजा
बत न तनुयुः संध्योपास्ति भविष्यति किं ततः ॥ निगमचरितानङ्गीकारो हि दूषणमाङ्गिना
मशकनवशादोषायैषां न जात्वननुष्ठितिः ॥ १८७ ॥ हनं शिबिकादिरूपं विन्दति चेत् का क्षतिः हानिः ? तथा अस्ति परलोक ईश्वरो वा इति बुद्धिर्येषां तैर्जनैः दत्तं समर्पितं अशेषं संपूर्णमपि वित्तं दैत्यारेः श्रीविष्णोः नित्यार्चनायाः नित्यपूजायाः सात्कृत्य अधीनं कृत्वा "तदधीनवचने" इति सातिः । स्वयं अस्पृशन् सन् वसति चेत् , तावता निन्दा अस्ति किम् ? नास्त्येवेत्यर्थः । गुर्वाज्ञया परोपकारार्थ वाहनेन देशान्तरसंचारादौ न कोऽपि दोष इति भावः ॥१८५॥
इदानीं 'यस्य क्वापि विलोकने' इत्यादिनोक्तं दूषणं परिहरन्नाह-स्वामिनीति । किंच खत्वेन स्वकीयत्वेन अनध्यवस्थता अनभिमन्यमानेन यतिना माध्वसंन्यासिना, खामिनि विष्णौ विनियुक्तानां समर्पितानां अन्नानां, यत्यन्नत्वं क्वयं कुतः प्राप्तम् ? तथा तत् ईश्वरसमर्पितमन्नं भुञ्जन्ति ते तद्भुजः तेऽपि, अत्र भक्षणे कृते सति कुतो हेतोः प्रत्यवयन्ति दोषयुक्ता भवन्ति ? अपि तु नैव भवन्तीत्यर्थः ॥ १८६ ॥
एतेनेति । एतेन खामिनीत्यादिवचनेन मतान्तरस्थाः शांकर-रामानुजीयादयः मठाधिपतयो यतयः संन्यासिनो व्याख्याताः दोषरहिताः कृताः । इदं वक्ष्यमाणं अवधेयं च ॥ ७२॥
अथ 'सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः-' इत्यादिश्लोकोक्तदूषणं निवारयन्नाह-यदीति । कतिपये कतिचन नतु सर्वे, द्विजाः मध्वमतस्था ब्राह्मणाः यदि जातु कदाचित् नतु सर्वकालं, आलस्यात् अलसस्य अशक्तेर्भावः आलस्यं तस्मात् , यथासमयं कालमनतिक्रम्य, संध्योपास्ति संध्यानुष्ठानं न तनुयुः बत न कुर्युः, तर्हि ततः किं भविष्यति ? न किमपीति भावः । ननु कालातिक्रमे दोष एव शास्त्रेण विहितः, एवं सति कथमिदमुच्यते इति चेत्तत्राह-निगमेति । हि यस्मात् कारणात् निगमचरितस्य श्रुति-स्मृति विहितकर्मणः अनङ्गीकारः नास्तिकत्वादखीकरणं, अङ्गिनां
१ 'सत्त्वेनानध्यवस्यता'. २ 'तद्भुजस्तु'. ३ 'जातालस्याः'.
१०
For Private And Personal Use Only