________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[कर्णाटदेश
१०८ विश्वगुणादर्शचम्पू:- एतद्गुरूणां पुनर्यतीनामेषामाकलितदोषवैधुर्या एषा शुभचर्या ॥७॥
दनुजभिदभिषेकैः सत्पुराणावलोकैः ___ पुनरपहतमोहैः पुण्यतीर्थावगाहैः ॥ भवकथनविदूरैर्ब्रह्मविद्याविचारैः ।।
क्षणमिव शुभचर्याः कालमेते नयन्ति ॥ १८४ ॥ यदपि तदुपरि त्वया दूषणमुपन्यस्तं तदपि मदपिहितहृदयेभ्यो भवाशेभ्य एव रोचते न तु गुणग्राहिभ्यः ॥ ७१ ॥ तत्तद्देशनिवासिशिष्यनिवहत्राणाय गुर्वाज्ञया
संचाराक्षम एष विन्दति यतिश्चेद्वाहनं का क्षतिः ? ॥ शरहिता, श्रद्धा आस्तिक्यबुद्धिश्च विजयते सर्वोत्कर्षेण विद्यते। तस्मात् एषु माध्वेषु साधु शोभनं चरितं न किम् ! अपि तु अस्त्येवेत्यर्थः ॥ १८३ ॥
एतदिति । एतेषां माध्वानां गुरवस्तेषां पुनर्यतीनां संन्यासिनां एषां, आकलितं प्राप्तं दोषाणां पूर्वोक्तानां वैधुर्यमभावो यस्याः सा तथोक्ता एषा वक्ष्यमाणा शुभचर्या शुभाचरणम् ॥ ७० ॥
दनुजेति । दनुजान् दैत्यान् “ असुरा दैत्य-दैतेय-दनुजेन्द्रारि-दानवाः" इत्यमरः । भिनत्ति नाशयति तथोक्तो विष्णुस्तस्याभिषेकैः, भवस्य संसारस्य कथनेन वि. दूरैः रहितैः पुनश्च अपहतो नष्टो मोहोऽज्ञानं यैस्तथाभूतैः, यच्छ्रवणादिना सद्यो मोहनिराकरणं भवति तथोक्तैरित्यर्थः । सत्पुराणानां भगवचरितप्रतिपादकत्वेन प्रशस्तपुराणग्रन्थानां अवलोकैः विचारैः, ब्रह्मविद्याया वेदान्तशास्त्रस्य विचारैश्च । 'अपहतमोहै: ' ' भवकथन-' इत्यादिविशेषणद्वयमत्राप्यनुषजनीयम् । पुण्यतीर्थानां गङ्गादीनामवगाहैः स्नानैश्च शुभा निर्मला चर्या आचरणं येषां तथाभूता एते संन्यासिनः क्षणमिव कालं नयन्ति निर्यापयन्ति ॥ १८४ ॥
यदपीति । यदपि त्वया ' सततमकृतसंध्योपास्तिः' इत्यादिना तदुपरि माध्वसंन्यासिषु दूषणमुपन्यस्तमारोपितं, तदपि मदेनाज्ञानेन पिहितमाच्छादितं हृदयमन्तःकरणं येषां तेभ्यो भवादृशेभ्यस्त्वत्सदृशेभ्य एव "आ सर्वनाम्नः" इति भवच्छब्दस्याकारादेशः । रोचते । गुणग्राहिभ्यस्तु न, रोचते इत्यनुषजनीयम् ॥ ७१॥
अथ · भिक्षां कष्टमटन्ति-' इत्यादिनोक्तं दूषणं निराकरोति-तत्तद्देशेति । एष यतिः माध्वसंन्यासी गुरोः मध्वाचार्यस्य आज्ञया ' देशान्तरनिवासिनः शिष्यान् मन्त्रोपदेशेनानुगृहाण ' इत्यात्मिकया तत्तद्देशनिवासिनः निकटदेशवासिनः शिध्यनिवहस्य शिष्यसमूहस्य “ समूहे निवह-व्यूह-" इत्यमरः । त्राणाय मन्त्रोपदेशद्वारेण रक्षणाय संचारे केवलं पादमात्रेण गमने अक्षमः सन् वा
१ 'तत्पुराणावलोकैः'. २ 'कदन'. ३ 'यतिवर्याः'. ४ 'मदविहित, मदनपिहिति'.
For Private And Personal Use Only