SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [वैयाकरण माहिनाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते ॥ कस्मिंश्चिदुक्ते तु पदे कथंचित्खैरं वपुः विद्यति वेपते च ॥५७४॥ कृ०-साक्षेपम् कथं सखे ! शतकोटिपाणिनिगदितादपि पाणिनिगदितमेव व्याकरणमौद्रियन्ते सन्तः ? ॥ २४४ ॥ वि०-पाणिनीयमेव हि व्याकरणं प्रयोगौपयिकं प्रविशदप्रतीतिकारणमिति तत्रैवादरः पण्डितानाम् ॥ २४५ ॥ तारस्य पतञ्जले: गीर्भाष्यरूपा वाणी यैस्तेषां नृणां पण्डितजनानां बुधराजानां पण्डितश्रेष्ठानां गोष्टी सभा दुरापा दुष्प्रवेशा भवति । कथमिव । अबुद्धा मझाता चापश्रुतेर्धनुर्वेदस्य पद्धतिर्मार्गो यैस्तेषां उद्धतः यो मुद्युक्तः योद्धृणां योधानां सार्थः समूहो यस्यां सा युद्धस्य समरस्य क्षमेव भूमिरिव ॥ ५७३ ॥ एतदेव स्पष्टयति-नाङ्गीकृतेति । नाङ्गीकृतं दृढाभ्यासेन न स्वीकृतं व्याक रणमेवौषधं यैस्तेषां जनानां वाचि वाण्यां अपाटवं वक्तृत्वाभावरूपमकौशलं सुगाढं दृढतरं आस्ते वर्तते । ततश्च केनचित् पण्डितेनेति शेषः । कथंचित् , न तु सम्यक् प्रकृति-प्रत्ययादिज्ञानयुक्तं कस्मिंश्चित् पदे सुप्तिङन्तादिरूपे, उक्ते सति खैर खच्छ. न्दं यथा तथा वपुः शरीरं खिद्यति धर्मयुक्तं भवति । वेपते कम्पते च । व्याकरगज्ञानाभावात् सुप्तिङन्तपदानां याथार्थ्यानवगमादिति भावः ॥ ५७४ ॥ कथमिति । हे सखे ! शतकोटिर्वजं "शतकोटिः खरुः शम्बो दम्भोलिर. शनियोः ।" इत्यमरः । पाणौ हस्ते यस्य सः तेन, इन्द्रेणेत्यर्थः । एतदुपलक्षणम् । तेन चन्द्र-काशकृत्स्नादयोऽपि व्याकरणप्रणेतारो ज्ञेयाः । निगदितात्प्रोकादपि पाणिनिना मुनिना एकेनैव गदितं प्रोक्तं व्याकरणं अष्टाध्यायपरिमितसूत्रपाठरूपमेव, सन्तः पण्डिताः कथं आद्रियन्ते सत्कुर्वन्ति ? ॥ २४४ ॥ . पाणिनीयमिति | हि यस्मात्कारणात् पाणिनेरिदं तत्प्रणीतमित्यर्थः । व्या. करणमेव प्रयोगाणां वैदिक-लौकिकानां औपयिकं यथायुक्तं प्रकृति-प्रत्ययादियो. जनेन साधकतयोपयोगि, अत एव प्रकर्षेण विशदायां निर्मलायां प्रतीतौ ज्ञाने कारणं भवति । एतस्मिन् ज्ञाते कस्मिंश्चिदपि प्रयोगसाधने न व्याकरणान्तरस्यापे. क्षेति भावः । इति हेतोः पण्डितानां तत्र पाणिनीयव्याकरण एवादरः सत्कारः २४५ १ अस्वीकृत'. २ 'आद्रियते' इत्येव क्वचिदृश्यते. ३ 'प्रायेणानौपाधिक'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy