________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १९]
पदार्थचन्द्रिकाटीकासहिता ।
१३९
उत्कर्षे चरमाश्रमी जडमतिः स्वेनैव जानाति चेत्
नेदिष्टेष्वपि सर्वलोकगमितुर्भक्तेषु भित्तीयते ॥ अन्येऽमी यतयः प्रबोधमतयः सर्वस्य चोत्कर्षदा
___ भक्तिर्भागवतीति सस्पृहममूनर्चन्ति नृत्यन्ति च ॥ ४ ॥ इदं चावधेयम्.. चतुर्वेदाध्यायी सकलविहिताचारनिपुणो
निषिद्धाचारानप्यथ परिहरन्छास्त्रपदवीम् ॥ यतिर्वाप्यन्यो वा हरिचरणभक्तान्यदि जना
नुपेक्षेत क्षान्तैर्न भवति पदं विश्वगमितुः ॥ ५ ॥ तदनतिक्रान्तलोकमर्यादमाश्रमत्रयस्यैव न केवलं, निखिलाश्रमिणामपि परस्परभक्तिप्रकर्षप्रकटितदास्यमुक्तिप्रत्युद्गमाभिवादनादिकमवश्यानुष्ठेयमेवेति साधु जानीहि ॥३॥ यदपि प्रपन्नजनजीवनप्रधाननिदानपावनपादावनेजनावलम्बिदूषणं तदपि तन्महिमाऽपरिज्ञानविजृम्भितं बुद्धेः पिशुनयति दौर्भाग्यम् ॥ ४ ॥ तथाहि
उत्कर्षमिति । जडा मतिर्यस्य सः अपण्डितः चरमाश्रमी सन्यासिकः खेनैव अर्थात् स्वस्य उत्तमाश्रमेणैव उत्कर्ष इतरेभ्यः श्रेष्ठत्वं जानाति चेत् तर्हि, सर्वेषां लोकानां गमितुः सर्वलोकव्यापिनः भगवतः भक्तेषु भित्तीयते भित्तिवदाचरति । इतराश्रमिषु भगवद्भक्तेषु नमत्खपि जडमतिरयं वात्मानमेव पूज्यतमं मन्वानो यतिः भित्तिवत् स्थाणुरिव भवति, प्रतिवन्दनादिकं किमपि न करोतीत्यर्थः।ये त्वन्ये अमी यतयः प्रबोधमतयः प्राज्ञाः, ते तु सर्वस्यापि प्राणिनः उत्कर्षदा महत्त्वप्रदा भागवती भगवत्सम्बन्धिनी भक्तिरेव भगवद्भक्त्यैव पूज्यत्वं महत्त्वं च नान्यैः आश्रमादिभिलिङ्गैरिति मत्वा, सस्पृहं अमूनन्यान् वैष्णवान् वानप्रस्थ-गृहस्थ-ब्रह्मचारि स्त्री-शूद्रानपि अर्चन्ति पूजयन्ति तदानन्देन नृत्यन्ति च ॥ ४ ॥
चतुर्वेदेति । चतुर्णा ऋग्यजु:सामाथाख्यानां वेदानां अध्यायी अध्ययनकर्ता सकले समग्रे विहिताचारे शास्त्रचोदितानुष्ठाने निपुणः कुशलोऽपि, निषिद्धान् वर्णाश्रमाद्यधिकृत्य शास्त्रेषु वर्जितान् आचारान् लशुन-गृञ्जनभक्षणादिरूपान् परिहरन् वर्जयनपि, शास्त्रपदवीं शास्त्रोदितमार्ग, चरनिति शेषः । यतिः अन्यः गृहस्थोऽपि वा हरिचरणभक्तान् वैष्णवान् यदि उपेक्षेत अवज्ञायेत चेत्, तस्य तत् कर्म विश्वगमितुः विश्वपतेर्भगवतः क्षान्यै क्षमायै पदं आस्पदं न भवति । विद्यादिसकलगुणविशिष्टोऽपि पुमान् वैष्णवापमानकृदपराधी भवतीत्यर्थः ॥ ५॥ । तदिति । तत् तस्मात् हेतोः अनतिकान्तलोकमर्यादं लोकमर्यादां अनतिक्रम्य यथा स्यात्तथा ब्रह्मचारि-गृहस्थ-वानप्रस्थरूपस्य आश्रमत्रयस्यैवायं परस्परवन्दनादिरूपो धर्म इति न, तर्हि निखिलाश्रमिणां संन्याससहितानां चतुर्णामपि आश्रमाणां परस्परस्य भक्तिप्रकर्षण प्रकटितं दास्यं प्रश्रयोक्तिः प्रत्युद्गमनाभिवादनादिकं च सर्वैरनुष्ठेयमेवेति साधु सम्यक् जानीहि बुध्यस्ख ॥ ३॥
एवं यतिवन्दनदूषणं परिहृत्य वैष्णवपादोदकसेवनदूषणं परिहरति-यदपीति। यदपि प्रपन्नानां प्रपत्तिधर्मेण भगवते शरणागतानां जीवनस्य प्रधानं मुख्यं निदानं
For Private And Personal Use Only