________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[श्रीरामानुज
स्वातत्र्यं परिवर्जयनिजगुरोरङ्गिद्वयांशीभवन्
प्रीत्यै स्वामिजनस्य निःस्पृहतया तन्वीत तीर्थान्वयम् ॥ गोष्टीभूय समार्जितं निपुणधीः श्रीपादतीर्थ स्वयम् .
स्वीकुर्याद्यदि पाञ्चरात्रपदवीभाजां न तद्दूषणम् ॥ ६ ॥ वद रहसि पदाम्बु स्वीयमापीयते वा विगतनिजपदाम्भो नार्थ्यते वाऽद्धितीर्थम् ॥ अपितु तदभिलाषा स्वामिनां स्वाङ्गिसङ्गेऽप्यधिकतरपवित्रं सेव्यते पादतीर्थम्॥७॥
तदवधेहि उपेक्षणीयनिजपदपयःसङ्गेऽप्यङ्गीकरणमधिकतरपवित्रबहुलतरहरिचरणसन्ततान्तरङ्गजनचरणावनेजनस्य समुचितमेवेति ॥ ५॥ यत् पावनं पवित्रं पादावनेजनं पादोदकं तत् अवलम्बते इति तदवलब्बि त. त्सम्बन्धि । पादोदकवन्दनरूपं यदूषणं, त्वयोपन्यस्तमिति शेषः । तदपि तस्य पादतीर्थस्य महिमा महत्त्वं तस्य अपरिज्ञानेन अज्ञानेन विजृम्भितं सत् , वुद्धेः धियः दौर्भाग्यं दुर्बलत्वं आकुञ्चितत्वमित्यर्थः । पिशुनयति प्रकटयति ॥ ४ ॥
तदेवोपपादयति-स्वातन्यमिति । स्वातन्त्र्यं खच्छन्दतां कामचारित्वमिति यावत् । परिवर्जयन् दूरतस्त्यजन्, निजगुरोः भगवतः अद्वियस्य अंशीभवन खात्मानं भगवञ्चरणांशभूतमिति मन्वानः सन्, स्वामिजनस्य संन्यासिजनस्य प्रीत्यै तदुक्तकरणेन तत्संतोषजननार्थं निःस्पृहतया फलाभिसन्धिराहित्येन तीर्थान्वयं तीर्थयात्रां तन्वीत आचरेत् वा आचरणं कुर्यादित्यर्थः । गोष्ठीभूय वैष्णवसमाजरूपेण स्थित्वा, गृह एवेति शेषः । समार्जितं संपादितं श्रीपादतीर्थ प्रपनजनपादोदकं निपुणधीः कुशलबुद्धिः खयं खीकुर्यात् यदि स्वीकरोति चेत् , तर्हि तत् पादतीर्थग्रहणं मतान्तरस्थायिनां दूषणं भविष्यति चेत् भवतु नाम । परं पाश्चरात्रपदवीभाजां पञ्चरात्रागमं प्रमाणीकुर्वतां रामानुजीयानां तदूषणं नभवति, अपि तु भूषणमेवेति फलितोऽर्थः ॥ ६ ॥ ___ अन्यदप्याह-वदेति । रहसि वैष्णवगोष्ठ्याम्, स्वीयं स्वकीयं पदाम्बु पाद. तीर्थमेव आपीयते प्राश्यते वेति वद । विगतनिजपदाम्भः विगतं निजं पदं स्थानं यस्य तादृशं अम्भः खस्थानभ्रष्टमुदकं अद्वितीर्थ चरणतीर्थ च नार्थ्यते न याच्यते वा अपि तु याच्यत एवेत्यर्थः। तस्य चरणतीर्थस्य अभिलाषां खामिनां प्रभूणां विष्णोरित्यर्थः । बहुवचनं पूजायाम् । अस्त्येव । यतः खाझिसङ्गेऽपि अधिकतरपवित्रं खचरणादपि तदुद्भवं गाङ्गमुदकं भगवतापि सेव्यते । अतस्तद्भक्तानां वैष्णवपादोदकसेवने न कोऽपि दोषः । भगवदनुष्ठितत्वादस्य मार्गस्येति भावः ॥ ७ ॥
तदिति । उपेक्षणीयस्य निजपदपयसः खीयपादोदकस्य सङ्गेऽपि तस्य अङ्गीकरणं गोष्ठ्यां हि सर्वेषां तत्रत्यानां पादोदकग्रहणे खस्यापि पादावनेजनादेकं तत्र वर्तत एव । तथापि तस्य अङ्गीकरणं प्राशनं वन्दनं वा खस्मादपि अधिकतरपवित्राणां विशेषतया पावनानां बहुलानां हरिचरणयोः भगवत्पादयोः सततं आसक्तं अन्तःकरणं येषां तेषां वैष्णवानां जनः समूहः तस्य चरणावनेजनस्य पादप्रक्षालनस्य यदुदकं तस्य सेवनं समुचितमेव युक्तमेव । खाधिकभगवद्भक्तपादतीर्थमि.
For Private And Personal Use Only